Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 176
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsur Gyanmandir K मूले द्वादश योजनानि उपरि चत्वारि विस्तीर्णोऽष्टयोजनोच्छायो ऋषभदेवनिवासो रत्नमयऋषभक्ट नामा पर्वतोऽस्ति । Mस च भूमिकूट इतीहप्रकरणे प्रसिद्धः चक्री षट् खण्डां वसुन्धरां विजित्यास्मिन् स्वनामलिखति ॥१२॥ भरतमुत्तरेण पूर्वापरयोर्लवणसमुद्रं प्राप्तो भरताद् द्विगुणविस्तारो योजनशतोच्छ्यो हेममयो हिमवान् वर्षधरः तदुपरि | बहुमध्यदेशभागे योजनसहस्रदैर्ध्यस्तदर्द्धविस्तारो दशयोजनावगाढो जलपूर्णः पद्महूदः तस्य रजतमयवज्रमयाः पापाणाश्चतुर्दिश्यां मणिसोपानाः तन्मध्ये योजनायामविस्तारं अर्द्धयोजनपिण्डं दशयोजनोच्चनालं गव्यूतद्वयं जलादुपरिस्थितं पद्म विद्यते । वज्रमयं तस्य मूलं अरिष्टमयः कन्दः वैडूर्यमयो नालः बाह्यपत्राणि च मध्यानि तु जाम्बूनदमयानि कनकमयी कर्णिका स्वर्णमयानि केसराणि विविधमणिमयं पुष्करं सा च कर्णिका द्विगव्यूतप्रमाणा पृथुला त्वेकं गव्यूतं तस्या उपरि पीठिका देवच्छंदकादियुतं श्रीदेवीभवनं एतादृशेनाप्रमाणेन कमलानामष्टशतेन घृतं तत्र श्रीदेव्या आभरणानि तद् बाह्ये वायव्यौदीच्यैशानेषु दिग्भागेषु चत्वारि कमलसहस्राणि ४००० तेषु तावन्त एवं सामानि का देवा देव्यौ वा पूर्वस्यां दिशि चतुषु पद्धेषु चतसृणां महामन्त्रिसदृशीनां स्थानानि आग्नेय्यामष्टसु पद्मसहस्रेषु श्रीदेव्या अभ्यन्तरायां पर्षदि देवानामष्टौ सहस्राः ८००० दक्षिणस्यां दिशि दशसु पद्मसहस्रेषु १०००० तावन्त एव मित्रस्थानीयादेवाः नैऋत्या द्वादशसु पद्मसहसेषु १२००० तावन्त एव किंकरस्थानीयाः सुरा बाह्यपर्षदि पश्चिमायां सप्तम पद्धेषु सप्तानामनीकाधिपतीनामाश्रयाः तथा चतसृषु दिक्षु पूर्वादिकासु षोडशमु पद्मसहस्रेषु १६००० आत्मरक्षकदेवानां स्थानानि एतद् वेष्टनकत्रयं मध्यं अपरेऽपि बाह्यास्त्रयः परिरयास्तेष्यभ्यन्तरे परिक्षेपे द्वात्रिंशल्लक्षाणि ३२००००० मध्यमे चत्वारिंशच्छतसहस्राणि ४०००००० अष्टचत्वारिंशल्लक्षाणि CAMESCREERAEER For Private and Personal Use Only

Loading...

Page Navigation
1 ... 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203