Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
मेकमधस्तादुद्धरितानि पञ्चदशशतानि पञ्चदशोत्तराणि धनुषां १५१५ सर्वाङ्कमीलने जातानि सप्तकोटीशतानि नवतिः कोटयः षट्पञ्चाशल्लक्षाणि चतुर्नवतिः सहस्राणि सार्द्धशताधकानि समचतुरस्राणां योजनप्रमाणखण्डानां तथैकं गव्यूतं पञ्चदशोत्तराणि पञ्चधनुःशतानि षष्टिरञ्जुलानि च यो०७९०५६९४१५० गाउ १ धनुः १५१५ अंगुल ६० इति सर्वजम्बूद्वीपप गणितपदं अपश्चितं तत्प्रपश्चनेन समर्थितं द्वितीय योजनद्वारम् ॥९-१०॥
सम्प्रति क्रमायातं तृतीय क्षेत्रद्वार गाथायाः प्रथमपादेनाहभरहाइ सत्तवासा वियइढ चउचउरतीसवट्टियरे। सोलसवक्खारगिरी दो चित्तविचित्त दो जमगा॥११॥18
भरहाइ त्ति । वर्षाणि क्षेत्राणि मनुष्यनिवासस्थानानीत्यर्थः। तानि कियत्संख्यानि किं नामानि च भवन्ति ?-इत्याहसत्ति ति सप्त संख्यानि नामतस्तु भरतादीनि आदिशब्दादेमवतहरिवर्ष महाविदेह रम्यकैरण्यवतैरवतानां ग्रहः तथा वर्षशब्दो नपुंसकलिङ्गःपुंस्त्वे प्रयुक्तोऽपि प्राकृतत्वान्न दोषायलिङ्गं व्यभिचार्यपीति वचनात् अमूनि च सर्वक्षेत्राणि स्वाधिष्ठातृदैवतसमाननामानि तथाहि भरताधिपतियों यो देव उत्पद्यते तं तं तत्सामानिकाद्यादेवा भरत इत्याहयन्ते ततस्तन्नाम्ना तदधिष्ठितं क्षेत्रमपि
भरतमिति कथ्यते । तथा चागमः-से केणटेणं भंते । भरहे वासे २ इति गोयमा ! भरहे देवे महड्डीए महज्जुए जाव पलिओBI वमटिइए परिवसइ से एएणडेणं गोयमा ! एवं वुच्चइ-भरहे वासे भरहे वासे इति एवं हेमवतादिषपि भावनीयमिति सक्षेपार्थः।
विस्तरार्थस्त्वयं सर्वद्वीपसमुद्राणां मध्ये परिपूर्णचन्द्रमण्डलसंस्थानः सर्वतो लक्षयोजनमानो जम्बूद्वीपोऽस्ति । यदागमः-से णं
For Private and Personal Use Only

Page Navigation
1 ... 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203