Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
पुण्डरीको हृदस्तत्र तस्मादक्षिणां दिशमाश्रित्य रोहितांशा सदृशी सुवर्णकूला रक्कारक्तवत्यौ तूत्तरगे गङ्गासिन्धू इव प्रमाणतः । तदुपरिष्टाच्चैकादश कूटानि तद्यथा- सिद्धायतन १ हैरण्यवत २ शिखरी ३ सुरादेवी ४ रक्ता ५ लक्ष्मी ६ सुवर्ण ७ रक्तोदा ८ गन्धापाति ९ ऐवत १० तिगिंच्छि ११ संज्ञानि हिमवत्कूटसदृशं सर्व क्षेत्राणामुत्तरदिगवस्थितं भरत प्रतिकलमैरावतं वैतादयस्तु व्यत्यय नगरसंख्य इति । तथाऽस्माजम्बूद्वीपादसंख्येषु द्वीपसमुद्रेध्वतिक्रान्तेषु कश्चिजम्बूद्वीपाभिधानो द्वीपोऽस्ति तस्मिन् सर्वे विजयादिद्वारवर्षपर्वत कूटनदी हृदवृक्ष विजयाद्यधिष्ठातृणां देवानां राजधान्यः सन्ति । उक्तं च जम्बूद्वीपप्रज्ञप्तौ - रायहाणीओ tigerd दीवे मंदरस पव्वयस्स दाहिणेणं तिरियं असंखिज्जेदीवसमुद्दे वीईवइत्ता अनम्मि जंबुद्दीवे दीवे वारसजोयणसहस्साई ओगाहेता इत्थ णं रायहाणीओ भाणियन्त्राओ । तासां विशेषवर्णनं क्षेत्रसमा सबृहद्वृत्तेरवसेयमिति समस्तप्रकरणसमुदायार्थः । दोसय कणयगिरिणं, चउगयदंता य तह सुमेरु य । छ वासहरा पिंडे, एगुणसत्तरि सया दुन्नी ||१२|| अथ पुनरक्षरार्थो भणिष्यते । तत्र व्याख्यायमानक्रमागतं चतुर्थ पर्वतद्वारमाह-एषां क्षेत्राणां द्वात्रिंशतो त्रियजानां च मध्यवर्त्तिनो वैतायास्ते च क्रमेण चत्वारश्रतुस्त्रिंशच्च वृत्ता वर्तुलाकारा इतरे तद्विपरीता दीर्घा इत्यर्थः इदमुक्तं भवति चत्वारो वृत्तत्वैतादयास्तेषां स्थानं प्रमाणं च प्रागेवोक्तं क्षेत्रसमासानुसारेण सिद्धान्तस्त्त्रनाद्यानां त्रयाणां स्थानकथनेऽन्यथा व्यवस्थितः । तथाहि शब्दापाती तद्वत् हरिवर्षे विकटापाती रम्यके गन्धापाती हैरण्यवते माल्यवानिति । तथा च तद्ग्रन्थः -कहि णं भंते हरिवासे विडावई नामं वट्टवेयड्डे पन्नत्ते । गोयमा ! हरिसलिलाए महानईए पच्चत्थिमेणं हरिकंताए महानईए पुरत्थिमेणं हरिवासस्स बहुमज्झसभागे इत्थ णं वियडावईणामं वट्टवेयड्डे पन्नत्ते । तथा कहि णं भंते ! रम्मए वासे गंधावई नामं बट्टवेय
For Private and Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir

Page Navigation
1 ... 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203