Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 198
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir विजययोरन्तनदीनामभाव एवास्ति अत एतेषु चतुर्धपि प्रत्येकं सामस्त्येनाष्टाविंशतिरष्टाविंशतिसहस्राणि नद्यःसन्ति । गङ्गासिंधुसम्बन्धिन्यो नापराः । यावती च कच्छविजये भूमिरन्तनदीमतां मुकच्छादीनां द्वादशानामप्येन्येषां च तावत्येव नाधिका, अतः कथं तेषु बहुतरा नद्यो ग्राहवत्याद्यन्तनदीसंयोगेऽपि विशेषभूमेरभावात् सम्भवन्ति ? अत्राह-नैतत् संवादकोटिमाटीकते यतो जम्बूद्वीपप्रज्ञप्तावप्यन्तनदीनां प्रत्येकमष्टाविंशति नदीसहस्रलक्षणः परिवारो भणितस्तथा च तद्वाक्यं “गाहावई महानई पवढा समाणी सुकच्छमहाकच्छविजये दुहा विभयमाणी २ अट्ठावीसाए सलिला सहस्सेहिं समग्गा दाहिणेणं सीयं महानई समुप्पेई" अपरेऽनूचानाः पुनरित्थं प्रवदन्ति-यथा अष्टाशीतिग्रहाश्चन्द्रस्यैव परिवारतया प्रसिद्धा अपि सूर्यस्यैव एत एव परिवारः न पुनरन्यः पृथक् प्रतीयते। उक्तं च समवायाङ्गवृत्ती अष्टाशीति महाग्रहा पते यद्यपि चन्द्रस्यैव परिवारोऽन्यत्र श्रूयते तथापि सूर्यस्यापीन्द्रत्वादेत देवपरिवारतयाऽबसेया इति तथा गङ्गासिन्धुसम्बन्धिन्य एवाष्टाविंशतिरष्टाविंशतिर्नदीसहस्राणि अन्तर्नदीनामपि परिवार इति एवमपरविदेहेऽपि ज्ञातव्यमिति ॥ २४ ॥ ____ अथ सूत्रकारोऽमुमेवार्थ स्पष्टयन् सकलजम्बूद्वीप-नदीनां संख्यामाहसीया सीओया वि य, बत्तीससहस्स पंचलक्खेहि। सब्वे चउदसलक्खा, छप्पन्नसहस्स मेलविया ॥२५॥ सीया इति-शीता नदी पश्चभिलक्षात्रिंशता सहीनदीभिः समं जर्षि वजन्तीति पूर्वतरगाथायाः सम्बन्धो गृह्यते । तथा शीतोदा अपि पृथगेतावतैव परिवारेणावगन्तव्याः। ततः सर्वसंख्यया कि जातमित्याह-सव्वेत्यादि सर्वे नदीवाचिनोऽङ्का इति गम्यते। यदि वा प्राकृत्वाल्लिङ्गव्यत्यये सर्वा नद्यः मेलविय त्ति मेलिता इति णिगन्तोऽपि मूलार्थाद्योतकः यथा रामो HALARIGLIATRICIANICO For Private and Personal Use Only

Loading...

Page Navigation
1 ... 196 197 198 199 200 201 202 203