________________
Shri Mahavirlain Aradhana Kendra
www.kobatirth.org
Acharya Shn Kailassagarsun Gyanmandir
HP संख्या विजयाः, तथा दाक्षिणात्यागङ्गासिन्धुभ्यां नदीभ्यामौदीच्यास्तु रक्तारक्तोदाभ्यां विभज्य त्रिधा कृताः पुनः प्रतिविजय वैताढथेन निपत्यषट्खण्डानि कृतानि । उक्तं च
विजयं पडिवेयड्डो गंगा सिंधू समादुदुनि नई । तेहिं कया छ खंडा, विदेह बत्तीसविजयाण ॥ इति
तत्रैकस्य विजयस्यायामः षोडश योजनसहस्राणि द्विचत्वारिंशान्यष्टौ शतानि कलाद्वयाधिकानि तथा विस्तारोद्वाविंशतिशतानि त्रयोदशोत्तराण्यर्द्धगव्यूतनानि निषधनीलवंतयोनितम्बे प्रतिविजयमेकैकमृषभकूटं शीताशीतोदयोर्गङ्गासिन्धुसङ्गमे क्रमेण मागधप्रभासौ तीर्थे वरदामतीर्थे तु तयोबहुमध्यदेशभागे इति । इह भद्रशालमुखवनयोर्मध्ये चत्वारो वक्षस्कारास्तदन्तरे तिस्रो नद्यस्तासामन्तराले ऽष्टौ विजयाः। सर्वेऽपि चतुभिर्गुणिताजातान्यष्टौ वनानि, षोडश वक्षस्काराःद्वादशान्तनद्यो द्वात्रिंशद् विजयाः। प्रतिविजयं च द्वे द्वे महानद्यौ निषधसविधवत्तिकुण्डाद् विनिर्गते गङ्गासिन्धूनाम्न्यौ केवलमौदीच्येषु षोडशसु विजयेषु माल्यवदुपकण्ठस्थितकुण्डाग्निमृते नामतोरक्तारक्तवत्यौ सरितौ विद्यते । तत्र वक्षस्काराणां नामानि यथा-चित्र १ पद्म २ नलिन ३ एकशैलाः ४ त्रिकूट १ वैश्रमण २ सुदर्शना ३ जनाः अङ्कवत् १ पनवत् २ आशी विपन्नमुखावहा ४ चन्द्र १ सूर्य २ नाग ३ देव ४ गिरयः इति प्रतिवक्षस्कारा चत्वारि कूटानि सिद्धायतना १ स्वनाम २ पूर्व विजया ३ ऽपरविजयाख्यानि । तथान्तनद्यः कुण्डनिर्गमा कुण्डमध्यद्वीपाः स्वनामदेवीवसतयः शीताशीतोदानुगामिन्यः प्रत्येकं पञ्चविंशत्याधिकशतयोजनविस्तारा दशगव्यूताऽवगाहा:,
ताश्च द्वादशनामतो यथा-ग्राहवती १ ह्रदवती २ वेगवती ३ तप्तजला १ मत्तजला २ उन्मत्तजला ३ क्षीरोदा १ सिंहश्रोतोऽ IE२ न्तर्वाहिन्यः ३ ऊर्मिमालिनी २ फेनमालिन्य इति ३ ॥ विजया यथा-कच्छ १ मुकच्छ २ महाकच्छ ३ कच्छव ४ दावत
ASIGURARITASLAUGLJANA
For Private and Personal Use Only