Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 165
________________ Shri Mahavirlain Aradhana Kendra www.kobatirth.org Acharya Shn Kailassagarsun Gyanmandir न० टीका ॥२॥ खंदेति । तत्र खंडानि विस्तारेण भरतप्रमाणानि योजनानि घनीकृतरूपाणि वर्षाणि भरतक्षेत्रादीनि पर्वता वैताद्वयादयः । कूटानि वैतादयादिपर्वतशिरः स्थितानि शृङ्गरूपाणि सिद्धायतनकूटादीनि तीर्थानि मागधादीनि श्रेणयो दीर्घवैतादथेषु पार्श्वद्वयेऽपि विद्याधर नगरऽऽभियोगिकदेवनिवासश्रेणयः विजया कच्छादयः हूंदाः पादयो महादःसलिला गङ्गायाः । इह समास ६ एवं कर्तव्यो योजनानि च वर्षाणि च योजनवर्षाणि प्राकृतत्वाल्लिङ्गव्यत्ययः एवमग्रेऽपि नवरं तीर्थानि च श्रेणयश्च तास्तीर्थश्रेणयः स्त्रीपुंनपुंसकानां सहवचने स्यात् परं लिमिति वचनात् स्त्रीत्वम् एवमग्रेऽपि विज्ञेयं पिंटेसि होइ संघयणि त्ति । एषां दशानां वर्णनीयपदार्थानां पिण्डःसमवायः सङ्ग्रहणिर्भवति पिण्डशब्दः समृहेऽप्यस्ति यदाह-हैमाऽनेकार्थ:-पिंडो वृंदे जपा पुष्पे गोलेवो लिंगसिरहयो रिति एतानि खंडादीनि दशापि परमार्थतः क्षेत्रमेव तत एवं निरुक्तिःक्षेत्रं जम्बूद्वीपलक्षणं संगृह्यते उपादीयतेऽनयेति क्षेत्रसमहणिः अवयवे समुदायोपचारात् । इमानि दश द्वाराण्यत्र प्रकरणेऽभिधास्यन्त इति ॥ छ ॥ २ ॥ अथ यथोदेशस्तथा निर्देश इति न्यायमाश्रित्य प्रथमं गाथात्रयेणखंडान्याहनउयसयं खंडाणं भरहपमाणेण भाइए लक्खे । अहवा नउय सयगुणं भरहपमाणं हवइ लक्खं ॥३॥ नउयसये त्ति । समस्तमपि जम्बूद्वीपं नवत्युत्तरं शतं खंडानां भणिष्यमाणप्रकारेण भवतीति शेषः । क्षेत्रपर्वतविस्तारमाश्रित्य खण्डानि ज्ञातव्यानि । यतः धनुष्पृष्टाकारत्वादाद्य भरतक्षेत्र लधीयस्ततःपराणि क्रमेण दीर्घतराणि यावन्महाविदेहो मध्यविभागे योजन लक्षदैर्ध्यः । कियत्प्रमाणानि खण्डानि भवन्तीत्याह-भरहपमाणेणेत्यादि भरतं परमवर्षे तस्य प्रमाणं-मानं पइविंशत्यधिक SAHARSA For Private and Personal Use Only

Loading...

Page Navigation
1 ... 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203