Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 196
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org सरितः । ततोऽस्यांङ्कराशिद्वयस्य मीलने जातानि दशलक्षाणि चतुःषष्टिसहस्राधिकानि १०६४००० तथैकराशिमध्य पूर्वोक्तानि त्रीणि लक्षाणि द्विनिवति सहस्राधिकानि क्षिप्यन्ते ततो भवन्ति समस्त जम्बूद्वीपे पट्पञ्चाशत् सहस्राधिकानि चतुर्दशलक्षाणि १४५६००० सर्वाग्रेण नद्य इति ॥ २३ ॥ • एवं व्याख्याने कृते विजयच्छेदिनीनां ग्राहवत्यादीनां षण्णां नदीनां प्ररूपणा उपेक्षिता भवत्यतस्तद्वर्णनाय वाचनान्तरेण द्वितीय प्रकारमाह चउदससहस्सगुणिया, अडती सनईओ विजयमज्झिल्ला। सीओयाए निवडंति, तह य सीयाइ एमेव ॥ २४ ॥ चउदसेति । अन्ये आचार्या एवमाचक्षतेऽष्टात्रिंशत् विजयमध्यवर्त्यः शीतोदायां निपतन्ति प्रविशन्ति किं विशिष्टास्ता ? इत्याहचतुर्दशभिर्नदीसहस्रैर्गुणित्वाऽभ्यस्ताः पुनः कीदृश्यस्तास्तद्यथा - द्वात्रिंशद् रक्ताद्या नद्यस्तथा पद्मावत्याद्या एवं सामस्त्येनाऽष्टात्रिंशत् षोडश विजयेषु सन्ति । ततचतुर्दशसहस्रैर्गुणिताऽष्टात्रिंशत् जातानि पञ्चलक्षाणि द्वात्रिंशत् सहस्राधिकानि ५३२००० । तथेति सादृश्ये, यथा शीतोदायामेवमेवेति । अनेनैव प्रकारेण पञ्चलक्षाणि द्वात्रिंशत् सहस्राधिकानि ५३२००० शीतायामपि भवन्तीति ततो राशिद्वयस्याप्येकी करणे चतुःपष्टिसहस्राधिकानि दशलक्षाणि १०६४००० सरितो भवन्ति ॥ इत्थं च व्याख्यायमाने कुरुमध्यगाचतुरशीतिसहस्राणि सरितो न गृहीतास्तासां स्थाने ग्राहवत्यादयः षडन्तर्नद्यः प्रत्येकं चतुर्दशनदीसहस्र-समन्वितास्ततश्चतुर्दशपट्कानि चतुरशीतिरिति गणनाक्रमेण चतुरशीतिनदीसहस्रसङ्घयां पूरयित्वा यथोक्ता सङ्ख्या समाहिता । परमयमपि प्रकाशे न सम्भवति । यतोऽन्तर्नद्यो गङ्गादिभ्यः सकाशाद् द्विगुणविस्ताराः प्रतीयन्ते - पणवीससमयं च For Private and Personal Use Only Acharya Shri Kailassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 194 195 196 197 198 199 200 201 202 203