Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatiran.org
Acharya Shn Kailassagarsun Gyanmandir
१० टीका
RECRORSCAROACARA
व्यञ्जनाकुलां रसवती भोजनतयाऽभिदधति तत्र सकर्णानां कर्णमवतंसति । यतः-सर्कराजित्वररसा पृथ्वीकल्पवृक्षाणां पुष्पानि फलानि च तेषामाहारतयोपयुज्यन्ते । आह चागमः-पुढवी पुप्फ फलाहारा तेणं मणुया पन्नत्ता, तत्र च सिंह व्याघ्रसर्प विडालादयो दुष्टतियश्चोऽपि क्षेत्रस्वाभाव्यात् मिथो हिंस्य हिंसकभाववर्जिताः प्रतनु कपायतयाऽवतिष्ठन्ते । अतस्तद्भवभावितत्त्वा अपि देवगतिमेवाऽश्नुवते । दंशमशकयूका मत्कुण प्रमुखाः शरीरसंतापकारिणः क्षुद्रजन्तवस्तुमूलतोऽपि न भवन्ति । कालस्तत्र सुषम दुःषमारूप एक एव । तन्मध्ये पश्चवर्णरत्नमयः सर्वतः सहस्रयोजनप्रमाणः पल्याकारः शब्दापाती वृत्तवैताढथपर्वतः येऽसुं रजतमयमभिदधति तेषां जम्बूद्वीपप्रज्ञप्त्या सह विरोधः तत्र ह्येवमुक्तम्-कहि णं भंते ! हेमवए वासे सद्दावइ नाम बट्टवेयड्ड पचते गोयमा रोहियाए महानईए पुनपच्छिमेणं रोहियंसाए महानईए पुरथिमेणं हेमवयवासस्स बहुमज्झदेसभागे इत्थ ण सहावइनाम बट्टवेयड्डपव्वर पन्नत्ते एगं जोयणसहस्सं उद्धं उच्चत्तेणं अड्डाइज्जाई जोयणसयाई उव्वेहेणं सव्वत्थसमे पल्लगसंठाण एग जोयण सहस्सं आयाम विक्खंभेणं तिनि जोयणसहस्साई एगं च वावडं जोयणसयं किंचि विसेसाहियं परिक्खेवेणं सबरयणामए अच्छे इत्यादि उमास्वाति वाचकोऽप्येवमेवाह-तथा च तद् वाक्यं वृत्तो विविधरत्नमयः सर्वतः साहस्रः शब्दापाती गिरिरिति अत एतद्वर्णके पक्षेऽत्र समासे स्ययमधा इत्युक्तं तन्न संवावदीति किन्तु 'रयणमया' इति संवादीपाठ इति । तथा तदुपरि स्वाति देवभवनं हिमवत् कूटप्रासाद सदृशं तदुत्तरो हैमवतक्षेत्राद् द्विगुणविस्तारोऽर्जुनमयो योजनशतद्वयोच्चो महा हिमवान् तत्र बहुमध्ये पाहदादिद्विगुणायामविष्कम्भो महा पद्महूदः कृत ह्रीदेवीनिवासः पद्मानि पद्महुदसन्त्यत्र एतद्दक्षिणतोरणानिःमृत्य पञ्चकलाधिकानि पश्चोत्तराणि पोडशयोजनशतानि पर्वतमुल्लय रोहितादेव्याधिष्ठितगङ्गाप्रपात कुण्डाद् द्विगुणायामविष्कम्भे दश
SISTERIERSIRSAGAR
॥
९
॥
For Private and Personal Use Only

Page Navigation
1 ... 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203