Book Title: Chatvari Prakaranani
Author(s): Indrasenvijay Gani, Sinhsenvijay Gani
Publisher: Jain Granth Prakashak

View full book text
Previous | Next

Page 183
________________ Shri Mahavir Jain Aradhana Kendra ज० टीका ॥११॥ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir चत्वारिंशद्योजनोच्चा वैडूर्यमयी तस्या उपरि सिद्धायतनं विजयार्द्धसदृशं मध्ये वनं विदिक्षु पोडशपुष्करिण्यस्तद्यथा- पुंद्रा १ पुंद्राभा २ सुरका ३ सुरक्तवती ४ क्षीररसा १ इक्षुरसा २ मृतरसा ३ वारुणी ४ शंखोत्तरा १ शंखा २ शंखावर्ता ३ बलाहका ४ पुष्पोत्तरा १ पुष्पवती २ सुपुष्पा ३ पुष्पमालिनी ४ प्रासादाः सिद्धायतनानि च प्राखत् वनान्ते चतसृषु दिक्षु एकैका जिनाभिषेकशिला तद्यथा- प्राच्यां पाण्डुशिला १ दक्षिणस्यामतिपाण्डुशिला २ अपाच्यां रक्ताशिला ३ उत्तरायामतिरक्ताशिले ति ४ ताथ सर्वा अर्द्धचन्द्रसंस्थानस्थिताः पञ्च योजनशतायामास्तदर्द्ध विस्ताराश्चतुर्योजनोत्सेधाः अर्जुनकनकनिर्माणाः तासु पण्डुकम्बलरककम्बलयोरुपरि द्वे द्वे सिंहासने शेषयोस्त्वेकेकं सिंहासनानां च सर्वेषामायामो विष्कमच पञ्च धनुःशतानि तदर्द्ध पृथुत्वं प्राच्यापाच्येषु विजयोद्भवा जिना अभिषिच्यन्ते इतरयोस्तु भरतैरावतोत्पन्नास्तीर्थकरा इति ॥ तथा चतसृष्वपि मेरोर्विदिक्षु गजदन्ता कारवक्षस्कारनामानः पर्वताः सन्ति इदमुक्तं भवति यथा गजस्यदन्ता मूल स्थूलास्ततः क्रमेण हीयमाना यावदन्ते सूक्ष्माः एवमेतेऽपि आदौ निषधनीलवन्तौ निकषा चतुर्योजन तोच्चाः पञ्च योजनशत विस्तारास्तत उच्चत्वे क्रमेण वर्द्धमाना विस्तारे तु हीयमानास्तुरगा कन्धराकृतयो यावन्मेरुसमया पञ्च योजनशतान्युच्चा अङ्गुलासङ्घयेयभागविस्तारा भवन्ति ते चामी -आग्नेय्यां रजतमयः सप्तकूट परिस्कृतः सौमनसः १ नैऋत्यां तपनीयमयो नव कूटान्वितो विद्युत्प्रभः २ वायव्यां हिरण्यमयः सप्तकूटो गन्धमादनः ३ ऐशान्यां वैडूर्यमयो नक्कूटाङ्कितो माल्यवान् ४ प्रत्येकमेतेषां त्रिंशद्योजनसहस्राणि नवोत्तरं शतद्वयं कलाषट्कं चायामः सर्वेषु प्रथम प्रथम कूटे सिद्धायतनं कूटानि चामूनि हिमवत्कूटप्रमाणानि एषां नामानि मेरुदिग्विभागाद् गणनीयानि तथाहि -सौमनसे वक्षस्कारगिरौ सिद्धायतन १ सौमनस २ मङ्गलापाति ३ देवकुरु ४ विमल ५ काश्चन ६ For Private and Personal Use Only ॥११

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203