Book Title: Tilakamanjiri Part 2
Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri
Publisher: Vijaylavanyasurishwar Gyanmandir Botad

View full book text
Previous | Next

Page 5
________________ कथासारः। असीमसाहसाकृष्टराजलक्ष्मीवितीर्णतनयरत्रं तमाशु दर्शयित्वा कृतार्थय मामकीन लोचनयुगलम् । तस्य तदवलोकनकौतुकमवगम्य सेनापतिः प्रत्यवोचत्–'कुमार! यद्येवमुल्कण्ठसे, तर्हि प्रस्थीयतामद्येव' इत्यनुज्ञाप्य मया सार्धमसौ देवस्य पार्श्व प्रेषितः सम्प्रति शक्रावतारोद्यानसन्निधानसुन्दरे सरयूपरिसरे सनिवेश्य शिबिरमवतिष्ठते"। ___ सर्वमेतदाकर्ण्य विस्मयमनुभवन् मेघवाहनस्तदवलोकनोत्कलिकाकुलः सपदि तदाकारणाय हरदासनामानं महाप्रतीहार पाहै पीत् । स च सादरं तमानीयान्तः प्रावीविशत् । तमभिमुखमागच्छन्तं दूरादेव देव आहूयातिदूरमुत्क्षिप्ताभ्यां भुजाभ्यामाकृष्य स्वकीयमङ्कमारूरुपत् , गाढमाश्लिष्य प्रणयभरेणासन्नासने चोपवेश्य नृपः समन्दस्मितमभाषत-"तवागमनेन कृतार्थोऽहमस्मि, धन्यस्त्वमेवान जगति येनात्मनः पराजयमपि विजयमिवादियते वैरिवर्गः । मन्ये मदीयशिरच्छेदसाहसावलोकनसन्तुष्टया राजलक्ष्म्या दिव्याङ्गुलीयकोपहरणव्याजेन दविष्ठदेशान्तरादाकृष्य मह्यमुपहृतोऽसि, मे द्वितीयस्त्वमात्मजन्मा। हरिवाहनेन सह निर्विशेषमुपभुझ्च प्राज्यं राज्यमिदमात्मनः । परेणाहमिहानीत इति न मनागपि मन्येथाः, कस्यापि परस्याभावात् प्रत्युत समेषामेव राज्यलोकानां भवदीयत्वात्, सर्वथा स्थिरमवस्थीयतामत्र, सर्वमपि सेत्स्यति समीहितम्" इत्युक्त्वा निकटोपविष्ट हरिवाहनं जगाद-"वत्स! गुणैस्त्वत्सम त्वत्समधिकं वा मध्यवर्ग कमप्यनवलोक्य त्वत्सहचरान्वेषणप्रवणेन मयाऽद्य भाग्येनोपलब्धस्तव विस्रब्धः सहचरः। अयमतिसान्द्रसख्येनाध्यवसिततादात्म्यो न कदाचन विरहयितव्यः, मपि तु निशास्वपि शश्वत् सन्निधातव्यः प्राणप्रियः समर केतुः" इत्यभिधाय नृपतिरासनादुदतिष्ठत् । कुमारोऽपि तदादेशमुररीकृत्य समरकेतुं हस्त गृहीत्वा अन्तःपुरसञ्चारिणा परिचारकगणेन परिवृतो मदिरावतीभवनमनैषीत् । तत्र मातरमभिवाद्य समरकेतुं दर्शयित्वोपन्यस्तसमस्ततदीयगुणगणस्तदुपहृतवस्त्राभरणं तं स्वभवनमानषीत् । तत्र च सम्पादितस्नानभोजनादिकाय हरिवाहनाय भुत्त्यर्थमशेषमुत्तरापथ, समरकेतवे चाङ्गादिजनपदान् पट्टकचित्रितानर्पयामास नृपेणादिष्टः सुदृष्टिनामाऽक्षपटलिकः । एवं स्वकुमारनिर्विशेषमुपदर्शितप्रसादेनावनिपतिना प्रतिक्षणं सक्रियमाणः, देव्यापि विचिन्त्यमानस्नानाशनादिसौख्यः समरकेतुः स्वगुणगणेन हरिवाहनमनुकुवनहर्निशमेवान्योन्यमन्वरज्यत् । एकदा ग्रीष्मावसरे प्रभात एवोत्थाय कृतस्त्रानभोजनः समरकेतुना सह गजमारुह्य सरयूतटवर्ति मत्तकोकिलं नाम बाह्योद्यानमगमत् । गत्वा च तत्र कतिपयाप्तनृपकुमारपरिवृतः सरयूतीरपरिसरमुपसृत्य तत्र कामदेवमन्दिरसन्निहितप्रदेशे प्रथममेवागत्य परिजनेनोपकल्पितं सम्भूयोपस्थापितताभिरभिनवयौवनाभिराङ्गनाभिरधिष्ठितवातायनं जलमण्डपमगमत् । प्रविश्य तदन्तः कतिपयाप्तजनसमेतस्तस्य निर्माणरामणीयकमितस्ततो निरीक्ष्योपरतकौतुकः कुसुमतल्पमेकमनल्पमध्यासिष्ट । तत्रासीनमेव तं प्रतीहारप्रवेशितैरनेकविधवाग्विनोदव्यवसितैः राजपुत्रैस्तत्कालोचितकृतवरिवस्यैर्वयस्यैर्नृपजनैश्च यथास्थानमासीनैः प्रवर्तितायां वैदग्ध्यभूयिष्ठायां काव्यगोष्ठयां विचित्रालापमुपसृत्य काव्येषु निरतिशयरसिको मञ्जीरनामा बन्दितनयो विज्ञापयामास-"कुमार ! अध्यवहितपूर्वस्य मधुमासस्य विशुद्धत्रयोदश्यामतीव व्ययेन नागरिकभजङ्गजनेन प्रीत्या प्रवर्तितयात्रोत्सवदिदृक्षया कामदेवस्य मन्दिरमायातेन मया तत्प्राङ्गणवर्तिसहकारतरोरधस्तान्मृणालतन्तुनियन्त्रितग्रीवोद्देशं मध्यभागरचितरुचिरस्तनवदनाकृतिकेन शुभकचन्दनद्रववेदिकावलयेन बद्धोभयपर्यन्तं ताडीपत्रखण्डमवलोक्य कौतुकेनादायोत्तरीयाञ्जले नियम्य च यात्रायामवसितायां रहसि कस्वेदमिति निरूपयता मया तत्पृष्ठे नामाक्षराण्यनवेक्ष्य तत्क्षणमेवावरणमपसार्य तदुदघाटि । तदनु दिव्याक्षरैरुदासमाना दुरूहतात्पर्या व्यलोकि तत्रानुपदमेवोच्यमाना समन्तादार्या । परं तस्या मुहुमुहुरवहितेन मनसा विचारिताया अपि न किमपि तात्पर्यवाधार्यत । तस्मात् कुमार एव सर्वमादिशतु यदिदं केन कस्य पाये किममिप्रायकं प्रैषि पत्रम्"। इत्यभिधाय तामतिस्फुटमपाठीत् “गुरुभिरदत्तां वोढुं वाञ्छन् मामक्रमात् त्वमचिरेण । स्थातासिपत्रपादपगहने तत्रान्तिकस्थाग्निः ॥" पध्यमानायामस्यामार्यायामवधाय तत्तात्पर्यमालोचयत्सु सभासत्सु कोशलेश्वरकुमारोऽब्रवीत-"सखे ! काचिद् दिव्यकन्यकामुद्वोढुकामोऽपि कश्चन युवा तया वृतोऽपि तदीयगुरुजनैस्तदानेन नान्वग्राहीति मदनाग्निना दन्दह्यमानमानसोऽसौ तामनुचितेनापि विधिना प्राणप्रणयिनी चिकीर्षुदतीमुखेन वसाहसमावीविदत् । तत्पार्श्वे तया प्रेषितस्यास्योत्तरपत्रस्यायमभिसन्धिः अकारणविद्वेषिभिर्मरिपत्रादिभिस्तुभ्यमप्रतिपादितामपि मां मानभङ्गमसहमानस्त्वं सामक्रममपहाय बलादपहरणादिना

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 190