Book Title: Tilakamanjiri Part 2 Author(s): Dhanpal Mahakavi, Shantyasuri, Lavanyasuri Publisher: Vijaylavanyasurishwar Gyanmandir Botad View full book textPage 4
________________ तिलकमञ्जरी प्रत्यहं प्रमुखदूतान् प्राहैषीत्, पर सेनापतिस्तस्य तथाविधमुद्यमं गूढचरेभ्य उपलभ्यातीव कुपितः सरभसमापतन्तीभिः सेनाभिरागत्य काञ्चीनगरीमरौत्सीत् । दुर्गविघटनाय प्रवर्तितैः सजितमत्तदन्तिघटैः सामन्तैः सह प्राकारशिखरमध्यासीनस्य कुसुमशेखरराज्यलोकस्य प्रत्यहं संग्रामा अभूवन् । एवं काञ्चीनगर्या आक्रमण-रक्षणाभिनिवेशाभ्यामतीते कियति काले, रावेरतिक्रान्ते च प्रथमप्रहरे प्रस्तुतोत्सवमग्नतयोपरतसंग्रामचिन्तोद्वृत्तमानसः सेनानायकः सहसैव प्रकटितमतीवोत्कटं कटककलकलमाकर्ण्य सञ्जाताक्रमणशङ्कस्तस्काललब्धावसरो महाप्रलयकल्पं संग्राममकार्षीत् । तृतीयभागावशिष्टायां रजन्यामनवस्थया जयपराजयावनुभवति प्रतिद्वन्द्विसैन्यद्वये, शत्रुसैन्यान्निर्मत्य कुमारकल्प एको नृपकुमारः सेनापतिपुरःपुञ्जितानां राज्ञां मध्यमुत्पत्य सगर्वमुच्चैः क्रोशन् सेनापतेरन्तिकमुपतस्थे। सेनापतिरपि प्रौढ्योपसृत्य तदीयदृष्टिपथमध्यतिष्ठत् । तयोश्विरमतिभयङ्करे प्रवृत्ते महासगारे सेनापतेरतीव शोच्यां दशामनुभूय तयाणपरित्राणमाग मार्गयमाणः पार्थस्थमपि व्यग्रतया विस्मृत देवेन प्रहितं बालारुणमङ्कलीयकमस्मार्षम् , व्याहापं च तं तद् ग्रहीतुम् , पर प्रसूयन्निव नासौ ग्रहीतुमुन्मना अजनीति जनिताभिनिवेशोऽहं तदीय कराग्रवर्तिनीमेकामङ्गुली गृहीत्वा तत्र तदङ्गलीयकं न्यवीविशम् । तदनु तदङ्गुलीयकमहिना सपदि जृम्भामुद्राव्य निद्रोदेकेण युगपदाकुलीकृते शत्रुसैन्ये राजकुमारोऽपि धनुषि योजितं शरं संहृत्योज्झितधनुर्यष्टिर्निदातिरेकमनुभूय रथोत्सङ्गमाशिश्रियत् । स सेनापतिस्तस्य भुवनन्नयातिशायिना शौर्येण विस्मयमानमानसस्तमभिधावतः सैनिकान् शपथशतेन निवार्य राजकुमाराधिशयितरथदेशमागतः सकलाइसङ्गलदुधिरधारमुपरतप्राणसञ्चारममुं नृपकुमारमवेक्ष्य सन्निहितसामन्तजनैः साकमदसीयगुणगणं स्तुवंस्तं परिचाययितुं कमपि मृगयमाणस्तत्पक्षगतं नैकमपि चैतन्याश्रितमद्राक्षीत् , अगत्या च तच्चामरग्राहिणी तत्परिचयमनाक्षीत् । सापि स्रवदश्रुसलिलाप्लुतलोचना निःश्वस्य कथंकथमप्यचकथत्-'महानुभाव ! अस्तं गच्छन्ती कथमस्य कथोपन्यासपथमवतरितुमर्हति तथापि श्रूयतां कथंकथमपि समासेनोपन्यस्यमानाऽनन्यजनसमाना । अयमखिलद्वीपमहीपसमुद्भूयमानोदप्रकेतोः सिंहलद्वीपाधिपस्य चन्द्रकेतोरात्मजः संग्रामार्णवसेतुः समरकेतुर्नाम । अयं दुरतिक्रमविक्रमशालितया बाल्य एवानुभूतयौवराज्याभिषेकसौभाग्यः सकलद्वीपविजिगीषया प्रयातोऽपि पितुरादेशेनास्य राज्ञः साहाय्यसमीहया काञ्चीमागत्य पञ्चपाण्यहानि स्थित्वा प्रातरच शृङ्गारवेषं गृहीत्वा कामदेवमन्दिरमगमत्। तत्रासीनश्च द्वारदेशमनुप्रविशन्तं पौरनारीजनमतिप्रीतिपुषा चक्षुषाऽवेक्षमाणो दिवसमबसाय्य कामदेवस्य पुरस्तात् कमलिनीदलमयीं शय्यामधिशय्य निशीथसमये सजितसमरसामग्रीकः प्रतिषिध्यमानोऽपि हितैषिभिः प्रवर्तितसङ्गरो दुरवस्थामिमामन्वभूत्' इत्थमावेदयन्त्यामेव तस्यामःषीदसौ क्षपा। सर्वमपि प्रतिद्वन्द्विसैन्यमजागरीत्। स राजकुमारोऽपि क्षीणनिदस्तक्षणमीक्षणद्वयमुन्मीलनसौभाग्यमनैषीत् । सेनानीरपि तस्यातर्कितोपनतेन पुनरुज्जीवनेन कृतार्थः सन् मुहर्तमवस्थाय शत्रुसैन्याश्वासनायाऽभयपटहं नादयित्वा स्वसैन्यमपि तदवस्कन्दनाद् ब्यावर्त्य प्रधानजयवारणमारुह्य स्वपुरस्तावृपकुमारमारोप्य च शिबिरमानषीत् । अधिशयितशय्यं च तं व्रणपषन्धनादिना परिचर्याप्तभिषगवासविविधोपचारवर्धमानबलमुत्तमेऽहनि सादरं निमय साकममात्यादिमिः स्वसदनमवाप्यानीय भोजयित्वा कुसुमानुलेपनवसनाभरणैरभिनन्ध संग्रामगृहीतगजतुरगरथमपि प्रत्यर्य रचिताञ्जलिर्जगाद 'कुमार! मया निर्जितमात्मानमवगम्य मनागपि नावमन्येथाः, न खलु त्वामधिज्यधन्वानमर्हति कोऽपि समरे पराङ्मुखीकर्तुम्, दूरतोऽपि दृष्टमात्रं यदीदृशीं दशां त्वामन्वबीभवत् तदन्यदेव वस्तु, त्वदृष्टिपथमवतारयामि' इत्यभिधाय तदङ्गुलीयकं तमदर्शयत् । कुतो लब्धमिदमिति पृष्टश्च भवतो मेघवाहनस्य शकावतारगमनादारभ्य ज्वलनप्रभवैमानिकवृत्तान्तं राजलक्ष्मीस्वस्थानप्रस्थानान्तं यथावृत्तमकथयत् । नृपकुमारोऽपि सर्वमेतन्निशम्य स्वस्मिन्नवज्ञा शिथिलयन्नवोचत् 'दण्डाधिपते! नूनमसौ नरपतिरमरपतिस्तूयमानगुणगौरवः, यस्येदृशमसाधारण माहात्म्यम् , यस्य च भवादृशाः स्वशत्रवेऽपि प्राणार्पणप्रवणाः स्वविक्रममप्यपद्धत्यान्यदीयसामोत्कीर्तनपरायणाः सचिवाः, तस्मादलमधिकतद्वार्तोपन्यासेन,Page Navigation
1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 ... 190