Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
चन्द्रः कलङ्गभृवहर्पतिरेव ताप-युक्तः किलार्द्धतनुतन्विरुमापतिश्च । विश्वेष्वशेषगुणभाक् शमभावपूर्ण, यत्ते समानमपरं न हि रूपमस्ति ॥ १२ ॥
चन्ेति । चन्द्र इन्दुः कलंकं लांच्छनं विभर्तीति कलंकभृत् सलांच्छनः, अर्हपतिः सूर्यः तापेन युक्त एव सोष्ण एव उमायाः पार्वत्याः पतिः शंकर अर्ध तनौ शरीरार्धे तन्धी स्त्री यत्य किल ननु विश्वेषु जगत्सु अशेषाः समग्राश्च ते गुणाश्र तान भजतीति अशेषगुणभाक् समग्रगुणवन्, समभावेन शान्तिभादेन पूर्ण व्याप्तं ते तव समान तुल्यं यदपरं अन्यत् रूपं नास्ति हि निश्चितं ॥ १२ ॥
ख्यातं क्षितौ तब मतं यदबुद्धिना तज् ज्ञातं न दोष इह तेऽपि न पश्यतीदम् ।
घूको वेद्युतिमदेव हि मण्डलं न, यद्वासरे भवति पाण्डुपलाशकल्पम् ॥ १३ ॥
ख्यातमिति । क्षितौ भूमौ ख्यातं प्रसिद्धं यत् तव मतं तत् नास्ति बुद्धिर्यस्य तेन मूर्खेण न ज्ञातं न बुद्धं, इह अज्ञाने ते तब दोष अपि दूषणमपि न हि यस्मात् यदिदं पुरोदृश्यमानं वासरे दिवसे पाण्डुवासौ पलाशश्च तेन कल्पं तत् ईषत् पीतवर्णकिंशुकतुल्यं रवेः सूर्यस्य यथेच्छं मंण्डल युतिमदेव कान्तिमदेव तथापि घूकः दिवाभीतो न पश्यति तत्र सूर्यस्य किं दूषणं ? किमपि न ।। १३ ।।
शान्तान्देवमवबोधयुतं गुरुं च धर्मं श्रयन्त्यवमतोन्नतशासना ये ।
पुंसो विधूतपरवादधिनाभवन्तं, कस्तान्निवारयति सञ्चरतो यथेष्टम् ? ॥ १४ ॥
शान्तेति । है शान्त ! शान्तिगुणविशिष्ट एवं पूर्वश्लोकोक्त रीत्या अवमतमुन्नतं शासनं यैस्ते तिरस्कृत श्रेष्ठ शासना ये जनाः अब
For Private And Personal Use Only

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76