Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shahrin Aradhana Kendra
Acharya Shri Kailassagersuri Gyanmande
ये इति । ये जनाः त्वां विमुच्य त्यत्तया परकीयाथ अन्याश्च तं विधवध समर्थाथ तान् भजन्ति सेवन्ते, तच्चस्य सारस्य मधुरं माधुर्य अविज्ञातं न ज्ञातं तच्चमधुरं यैस्ते तैरविज्ञाततच्चमधुरैः वरं श्रेष्ठं च तवं च सारश्च तेन कीर्णः व्याप्तः नाम्ना नामसंकीर्तनात्, प्रशान्तः शान्ति प्रापितः भवीनां संसारीणां पापाज्जातः पापजः सचासौ साध्वसश्च भयं च पापजसाध्वसः, येन स त्वं तैः स्वमस्यान्तरं स्वमान्तरं तस्मिन् स्वप्नमध्येऽपि कदाचिदपि कस्मिन्समयेऽपि नेक्षितोऽसि नावलोकितोऽसि ॥ २७ ॥
दुर्भव्यविहिवपुर्वलतीह नाथा-भ्यासे कथं तव चितामृतसारशीते !। ज्ञातो मयाऽस्य सहजो न भवेस्किमुष्णं, बिम्बं रवेरिव पयोधरपार्श्ववत्ति ॥ २८ ॥
दुर्भवीति । हे नाथ ! स्वामिन् ! चितः व्याप्त बासौ अमृतस्य सूधायाः सारश्च तच च तेन शीत शीतलं तरिमन, इहात्र तवाभ्यासे समीपे नास्ति विशेषेण भेदेन ग्रहः सदसद्विवेकात्मकज्ञानं येन तदविग्रहि वपुः शरीरं यस्य सः सदसविदेकशून्यशरीरी, दुष्टः अनन्तसंसारसंपादकः भवः जन्मः यस्य सः दोपवत्वं दुष्टत्वं दोषस्त्वत्रानन्तभवसंपादकत्वं, दुभवी दुराग्रही, की ज्वलति मज्वलितः कथं भवति? शीते तव समीपे शीतेन भवितव्य उष्णः कथं भवति मयोष्णं अस्य दुर्भविणः सहजातः सहजः स्वभाविको धर्मों ज्ञातः तन्न भवेत् किं ? अपि तु भवेदेव । पयांसि जलानि धरति वहतीति पयोधरस्य मेघस्य पार्च समीपे वर्तत इति पयोधरपार्ववर्ति मेघसमीपवर्ती, रवेः सूर्यस्य विम्बमिव मण्डलमिव यथा जलपूर्णमेघसमीपवति सूर्यविम्बेन शीवलेन भवितव्य तथापि स्वभावादुष्णमेव न तु शीतं भवति तदेव सुधा व्याप्त तव स्वभावो दुर्लष्य इति भावः ॥ २८॥
For Private And Personal use only

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76