Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
शान्तिनाथ
॥ ३२ ॥
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
गुरुगुणर्द्धिगुरुत्वगरीयसे, भुवनभावविभासनभानवे ।
भुतबलाज्जनसंशयभेदिने, जिनसमाय नमो मम सूरये ॥ ३ ॥
गुरुगुणेति । गुर्वीं चासौ गुणानां ऋद्धिश्च तथा यद् गुरुत्वं तेन गरीयान् तस्मै महती या गुणसमृद्धिस्तया यद् महत्वं तेन पदार्थास्तेषां प्रकाशनं तस्मिन् सूर्यरूपाय, श्रुतस्य शास्त्रस्य बळं सामर्थ्य तस्मात् जनानां संशयस्तं भेदयतीति जनसंशयभेदी, तस्मै मनुष्यसंशयनिवारकाय, जिनसमाय तुल्याय मम सूरये आचार्याय नमोऽस्तु || ३ ||
जिनवरागमपारगमर्थयुक् श्रुतसमर्पणतत्परमर्थिनाम् ।
ऋजुगिरं चरणादिगुणाञ्चितं, नमत वाचकमादरतो जनाः ॥ ४॥
जिनवरेति । हे जनाः ! मनुष्याः ! जिनवरस्य आगमः तस्य पारं गच्छतीति जिनवरागमपारगतस्तं, तीर्थेश्वरस्य यद् शास्त्रं तस्य पारं गतं, अर्थिनां आगमार्थापक्षिणां, अर्थं युनक्तीति अर्थयुक्, तत् श्रुतसमर्पणं च तस्मिन्, तत्परस्तं अर्थसहितशास्त्राध्यापनमवृत्तं, ऋजुः सरला गीर्वाणी यस्य तं चरणादिगुणैरश्चितस्तं चरणादिगुणविशिष्टं यूयं वाचकमुपाध्यायं आदरतः भक्तितः नमत नतिं कुरुत ॥ ४ ॥ सकलपापनिबन्धननिर्वृता, उपशमामृतशान्तहृदोऽमदाः ।
समितिसंयमधर्मरताः शिवं ददतु मे मुनयः प्रतिवासरम् ॥ ५ ॥
सकलेति । सकलानि च तानि पापनिबन्धानि च तेभ्यो निर्द्धताः सम्पूर्णपापकारणशान्ताः, उपश्चम एवामृतं तेन शान्तं हृद् येषां
For Private And Personal Use Only
जिनस्तोत्रं
॥ ३२ ॥

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76