Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagarsuri Gyanmandir
अपावीति । क्रमावेबाम्बुजे तयोन्यसैः पवित्रा रेणुका यस्यां चरणकमल विन्यासपवित्ररजवती काशी काशी नामनगरं भावत त्वया स्वस्य स्वकीयस्य जन्मनि तेन अपावि पवित्रीकृता, साम्पतं संप्रति महांवासौ उदयश्च तस्मिन् उत्कण्ठितं मानस येषां मोक्षाभिलाषीचित्ताः जनाः मनुष्याः तां काशीं न अमुञ्चत् न त्यजन्ति, तदुचितं योग्यं हि निश्चितं ॥ २७ ॥
यदा जिन ! स्नानमकारि मन्दरे, यदम्बु पूरैर्हरिभिस्तदाऽऽगमत् ।
सदाभिषेकोदकधारयैव सा नभः सरित्वामिह नाथ ! सेवितुम् ॥ २८ ॥
यदेति । यदा यस्मिन् काले मन्दरे मन्दराचले हरिभिः इन्द्रः यस्याः अम्बुपूराः यद म्बुपूरास्तैर्यदुदक प्रवाहैर्जिनस्य स्नानमकारि कारितं तदा तस्मिन्काले सा नभसि सरित् नभः सरित् आकाशगङ्गा सदा सतता चासौ अभिषेकस्य स्नानस्योदकं जलं तस्य धारा च तया सततस्नानजलधारयैव एवकारेण कदाप्यत्रुटितया हे नाथ ! स्वामिन् ! त्वां भवन्तं इह भूलोके सेवितुमागमदाजगाम ॥ २८ ॥ सुपर्वनाथैर्विदधे बृहन्मह - त्रिविष्टपाद्यत्र परिच्छदैर्युतैः ।
अबोभवीत्सा नगरी गरीयसी, यदाऽऽददे पार्श्वजिनो महाव्रतम् ॥ २९ ॥
सुपर्वेति । यदा यस्मिन्काले यत्र नगर्यां पार्श्ववासी जिनश्च पार्श्वजिनः पार्श्वतीर्थेश्वरः, महत् च तत् व्रतं च महाव्रतं तत् दीवानादबे गृहीतवान् । यत्र च त्रिविष्टपात्स्वर्गादागत्य परिच्छदैः सेवकैर्युतैः सहितैः सुपर्वाणां नाथास्तै र्देवनायैः बृहत् महत्महः महोत्सवः विद अकारि सा नगरी गरीयसी सर्वनगरी श्रेष्ठाऽबोभवीत् अभवत् ॥ २९ ॥
तिरस्कृतश्याममणिच्छविच्छवि-ज्वलत्तऽदन्तततिद्युतिस्तनुः ।
For Private And Personal Use Only

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76