Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shn Mahavir Jain Aradhana Kendra
www.b
org
Acharya Shri Kailassagersuri Gyanmandir
शान्तिनाय
जिनस्तोत्रं
॥ ३३॥
निखिलपापविरामवदेनसां, भवकलापकृतां चय रिक्तकृत् ।
सुरनरादिसुस्वार्पण तत्परं, भवतु सञ्चरणं शरणं मम ॥ ८॥ निखिलेति । निखिलानि समग्राणि च तानि पापानि चाघानि तेषां विरामो निवृतिर्यस्मिन् तत् , भवानां जन्मनां कलापाः समूहाः तैः कृतां संपादिताना एनसां पापानां चर्य समूह, रिक्तं करोतीति, शून्यं करोति पापसमूहविनाशकृत् , मुराश्च ते देवाश्च नराश्च मनुष्याच ते आदिर्येषु ते सुरनरादयस्तेषां मुखस्यार्पणं तस्मिन् तत्परं देवमनुष्यादिशर्मदानप्रवृतं, सच्च तच्चरणं च शुभाचरणं मम शरणं रक्षणं भवतु स्याताम् ॥८॥
निचितकर्मचयेन्धनपावकं, परमलब्धिसमृद्धिसमर्पकम् ।
सकलमङ्गलमजुलमन्दिरं, निजसुखाय सदाऽस्तु शुभं तपः ॥ ९॥ निचितेति । निचितानि संपादितानि च तानि कर्माणि च तेषां चयाः समूहाः एवेन्धनानि काष्ठानि तेषां, पावकः वहिः पूर्वकतपापपटलकाष्टविनाशकरणे वद्विरूपं, परमा श्रेष्ठा चासौ लम्धिस्तेजोलब्ध्यादिश्च तस्याः समृद्धिा संपत् , तां समर्पयतीति समर्पकं दायक सकलानि च तानि मङ्गलानि च समस्तकल्याणानि तेषां मञ्जुलं सुन्दरं च तत् मन्दिरं च स्थानं चैवाहवं शुभ शुक्लं हितकारि तपस्तपधरणं सदा सततं निजं च तत्सुखं च तस्मै स्वमुखायास्तु भवतु ॥९॥
For Private And Personal use only

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76