Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 52
________________ Shn Mahavir Jain Aradhana Kendra www.b org Acharya Shri Kailassagersuri Gyanmandir शान्तिनाय जिनस्तोत्रं. प्रभो। यदा छद्मदशाऽभवत्तदा, भुजङ्गनाथे कमठे मनः समम् ॥ ११ ॥ तवेति । केवलं च तत् शानं च केवलज्ञान तत् अस्ति अस्येति केवलज्ञानवान् , तस्य केवलज्ञानवता, केवलप्रकाशयतः, विगतं कर्म । यस्मात्तस्य विकर्मणः कर्मरहितस्य तव का च काऽपि चाऽप्यर्थे प्रशंसा मया न क्रियते, कर्तुं न शक्यते । कुतः ? प्रशंसा हि समद्रष्टित्ववी-2 तरागित्वादिः सा तु छादशायामभूत इत्यर्धश्लोकेन वदति-प्रभो ! समर्थ ! यदा छपदशा अभवत्तदा अनुकूले भुजानाथे नागाऽधिपे प्रतिकूड़े कमठे च ते मनः चित्तं समं समष्टिवदभवत् यत्पूर्वं तदेव केवलदशायामाधिक्याभावात्का वा प्रशंसा मया कार्या ? कर्तुं न शक्यते, इत्यनेनान्येषां छादशायां समद्रष्ठित्वाभावात्तव समद्रष्ठित्वाभावात्महती प्रशंसा इति व्यंग्य सूचयति ॥ ११ ॥ स्वतीर्थसम्पत्प्रतिपादनक्षमे, मनो मदीयं भवदीयपत्कजे। सदा वदान्ये हि रमस्व शाश्वते, यतो न याचे भवतः पुरोऽधिकम् ॥ १२ ॥ स्वतीर्थेति । स्वस्य तीर्थ स्वकीयशास्त्रं तस्य संपत्तस्याः प्रतिपादनं निरुपणं तस्मिन्क्षमे समर्थे, भवतः इमौ भवदीयौ पदावेव के | जातं कर्ज कमलं भवदीयचरणकमले, मदीयं मनः सदा सततं रमस्व, रममाणं भवतु, हि निश्चये कीडशे वदान्ये दातरि, पुनः कीदृशे शाश्वते नित्ये यतश्चरणकमलादधिकं, भवतः पुरः भवतः सकाशे न याचे याचनां न करोमि ॥ १२ ॥ नमस्कृतेरास्यविधोरभूदही-श्वरो, विभो ! यस्य विहाय तं क्वचित् । भवादृशं स्वामिनमिष्टदायिनं, जनाः क्व चान्यत्र सुखाभ्रमन्ति किम् ॥ १३ ॥ ॥२४॥ BHMMMMMMMMEMEMBER For Private And Personal use only

Loading...

Page Navigation
1 ... 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76