Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 71
________________ Shn Mahavir Jain Aradhana Kendra www.kabathorg Acharya Shri Kailassagersuri Gyanmandir ॥ मालिनीवृत्तम् ।। नवपदशुचिमन्त्रं सिद्धचक्राख्ययन्त्रं, भजति जपति भक्त्या यः स हत्वारि वर्गम् । इह जगति विशाले ऋद्धिकीर्ती च लब्ध्वा, व्रजति कुशलतो द्राक् सिद्धिशर्माणि वीरः॥१०॥ नवपदेति । यः पुरुषो भक्त्या पूज्यबुद्धयात्मकस्नेहरूपया नव संख्याकानि पदानि यस्मिन्शुचिः पवित्रश्चासौ मन्त्रश्च तं जपति, सिद्धानां मुक्तानां चक्रं पटलं सिद्धचक्र आख्याऽभिधानं यस्य तत्सिडचक्राख्य, च तत् यन्त्र च सिडचक्राख्य यन्त्र तत् भजति सेवते स वीरपुरुषोऽरीणां शत्रणामन्तर्बहिः स्वरूपाणां इखा विनाशयित्वा, इह जगति अस्मिन्लोके विशाले महती ऋषिश्च समृद्धिश्च कीर्तिश्च यशश्च ते लब्ध्वा पाप्य कुशलतः मुखेन द्राक् बीघ्र सिद्धेः मोक्षस्य शर्माणि मुखानि तानि ब्रजति पामोति ॥१०॥ ॥ इति सिद्धचक्रस्तोत्रं समाप्तम् ।। ॥श्रीमत्पण्डितकीर्तिविमलगणिशिष्यपण्डितश्रीवीरविमलगणिकृत् ।। ॥श्री अष्टप्रकारपूजागभितजिनस्तोत्ररूपाष्टकम् ॥ ॥ दुतविलम्बितवृत्तम् ॥ विमलकेवलदर्शनसंयुतं, सकलजन्तुमहोदयकारणम् । स्वगुणशुद्धिकृते स्नपयाम्यहं, जिनवरं नवरङ्गमयाम्भसा ॥१॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 69 70 71 72 73 74 75 76