Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 13
________________ Shri Mahavir Jain Aradhana Kendra DUNNING www.kobatirth.org. या चकवर्तीपदवी सा च सा तु त्वया मुक्ता त्यक्ता खलु निश्चितं, तदनन्तरं त्वं इक्ष्वाकवश्च ते भूपतयश्च तेषु इक्ष्वाकुकुलरासु तीर्थकरो भूः । हे नाथ! नायकात एव तर्थकर त्वादेव स्वमपरो दीपोऽसि । कथं भूतो दीपो ? जगति त्रिलोके प्रकाशो यस्य से जगत्प्रकाशः यथा दीपस्तमो विनाशकत्वाद्दीपयतीति दीपस्तद्वत् त्वमपि जगदांध्य विनाशकत्वाद्दीपोऽसीति भावार्थः ॥ १६ ॥ क्षित्यां पदे र्हततमः स्मरणेन शश्वत् सहृत्पयोजमवबोधमुपैत्यरं ते । गोपाशनाशकरदर्शन एष चात्र, सूर्यातिशायि महिमासि मुनीन्द्र ! लोके ॥ १७ ॥ Acharya Shri Kailassagarsuri Gyanmandir सित्यामिति । यथा सूर्यकिरणैस्तमो विनश्यति, पयोजं च विकसति तत् ते तव क्षित्यां भूमौ पदैः पादन्यासैः हतं च विनष्टं तत्सम मोहः ते क्षितौ पदन्यासै जगदांध्यं विनष्टं ते शश्वत्सततं स्मरणेन सतां सज्जनानां हृदेव हृदयमेव पयसि जले जातं पयोजं कमलं अरं शीघ्रं तदवबोधं जाग्रति मुपैति प्राप्नोति । इदं तु तव सूर्यसादृयं परंतु तत्र सूर्यातिशायी प्रभावः कथमिति चेनित्यं हे मुनीनामिन्द्र ! अत्र च लोके जगति गावः मनोप्रभृतींद्रियाणि ता एव पाशः भवबन्धनरज्जुः “न एव मनुष्याणां कारणं बंधमोक्षयोरिति वचनात् ", तस्य नाशकरं मनोमभृतीनां संसारात् निवृत्तिकरं दर्शनं प्रत्यक्षं यस्य स एषः । मानवं सूर्यादविशायी भानुमतिक्रमितः महिमा प्रभावो यस्य स एतादृशस्त्वमसि ॥ १८ ॥ आस्यार्णवादिह नदी धृतिपूतवर्मा, सङ्ख्येय सा गुणरत्नचयाद्वचस्ते । उच्छिन्ननाशममृताच्छिशिरं प्रभावै, विद्योतयज्जगदपू (शशाङ्कबिम्बम् ॥ १८ ॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76