Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 69
________________ Shri Mahavir Jain Aradhana Kendra WWNNNNNNNNNNNNNN www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir शान्ति सुधाशान्तहृदयाः, नास्ति मदो येषां तें अमदा मदरहिता, समितिच संयमश्च समितिसंयमौ तावेव धर्मस्तस्मिन्रताः समितिसंयमादिधर्मतत्पराः, मुनयः साधवः मे मम प्रतिवासरं प्रतिदिनं शिवं मोक्षं सुखै वा ददतु प्रापयतु ॥ ५ ॥ सुगुरुदेवसुधर्मजिनोदितं, सकलभावरुचित्वमयं मम । कलशमादिभवं शुचिदर्शनं भवतु मुक्तिसुखाय गुणालयम् ॥ ६ ॥ सुगुरुदेवेति । शोभनो गुरुः सुगुरुः सुष्ठुगुरुः सुगुरु एव देवः सुगुरुदेवश्वासौ सुधर्मा वासौ जिनथ तेनोदितं सुष्ठुगुरुदेवस्वरूपसुधर्मा नामक जिनेन कथितं वा सुगुरु देव सुधर्माजिनय तैरुदितं, सकलाः समयाश्च ते भावाच पदार्थाच तेषां रुचिर्दीप्तिः प्रकाशौ यस्मिन् वत्, तु पुनः, अमयं निरोगं निष्कपटं वा, कलः मधुरश्वासौ शमादिः शान्त्यादिव तेन भवं जनितं गुणानामालयं स्थानं शुचि पवित्रं च तद्दर्शनं च शुचिदर्शनं मम मुक्तेः सुखं तस्मै मोक्षमाप्त्यर्थं भवतु ॥ ६॥ स्वपरबोधकरी सुखदायिनी, चरणहेतुरकृत्यनिवर्तिनी । सकलभावविकाशनकारिणी, हरतु संविदगम्यतमो मम ॥ ७॥ परव स्वपरौ तयोः स्व बोधमात्मस्वरूपज्ञानं करोतीति, भुखं शर्म दवीत सुखदायिनी, च हेतुः कारणं, अकृत्यं नीचकृत्यं निवर्तयतीति अकादरियां, सकला तेषां विकासनं प्रकाशनं करोतीति समस्तपदा मिकाशकारिणी संवित् चित् ज्ञानमित्यर्थः, मम गन्तुं योग्यं गम्यं न गम्यमगम्यै निष्कासितुमशक्यं च तचम्श्राज्ञानं हरंतु निवारयतु ॥ ७ ॥ उनल For Private And Personal Use Only MANMANVARANA

Loading...

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76