Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org.
Acharya Shri Kailassagersuri Gyanmandir
॥११॥
शान्तिनाय
शिवमिति । यत्र च स्थापने प्रहे यः शुभं च तत् ध्यानं च तत्धारयतीति शुभध्यानधारी श्रेष्टध्यानधारी, आवेवः वाचंयमानां मुनीनां सहस्रेण साकं सहितः, कर्मणामभावः अकर्मत्वं तत् शिवं मोक्षं लेमे प्राप, हि निश्चयेन, तं सिद्धाचलं मुभक्त्यैव नतोऽहं ॥ ३१ ॥
चकाराजितस्तीर्थनाथो द्वितीयस्तथा षोडशः शान्ति सार्वश्च यत्र ।।
चतुर्मासकं जन्तुषट्कायरक्षं, नतोऽहं सुभक्त्यैव सिद्धाचलं तम् ॥ ३२॥ चकारेति । यत्र द्वितीयः अजित स्तीर्थनाथः, तीर्थेश्वरः, तथा पोडशः शान्तिनामकस्तीर्थकरः, सर्वाभिधानतीर्थस्वामी च जन्तूनां पटकायानां रक्षा रक्षणं यस्मिन् तत् जन्तुषटकायरक्षं तत् पटकायजन्तुरक्षक, चत्वारश्च ते मासाथ चतुर्मासास्तेषां समासचतुर्मासं, चतुर्मासमेव चतुर्मास तत् चातुर्मास्य चकार, त्रयस्तीर्थेश्वराः कृतवन्तस्तं सिद्धाचलं सुभक्त्यैवाई नतोऽस्मि ।। ३२ ।।
॥शार्दूलविक्रीडीतवृत्तम् ।। सिद्धाश्चार्षभसेनमुख्यजिनपत्याद्या अनन्तास्तथा, सिद्धेयुर्मुनयः समाधिसहिताः सेत्स्यन्त्यनेकेऽपि ते। यस्मिन् ये प्रबलप्रमादबहुला दुर्दान्तपापात्मका, वाञ्च्छा वो विबुधोदिते शिवपदे भक्त्या भजध्वंच तम् ॥१३॥
सिद्धेति । आर्षभसेनः मुख्यः येषु ते आपभसेनमुख्याः जिनपतिरायः येषु ते जिनपत्यायाः आर्षभसेनमुख्याश्च ते जिनपत्याद्याश्च - आर्षभसेनमुख्यजिनपत्यायाः आर्षभसेनमधानजिनपतिप्रथमाः अनन्ताः असख्याताः सिद्धाः सिद्धिमन्तः, तथा समाधिना एकाग्रनया
सहिताः समाधिसहिताः आत्मस्वरूपलमचिचाः मुनयः ऋषयः, यस्मिन् सिद्धाचले सिध्येयुः सिद्धि प्राप्नुयुः प्रबलश्चासौ प्रमादश्च पवलप
For Private And Personal use only

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76