Book Title: Sadharan Jain Stotra Sangraha
Author(s): Muktivimal Gani
Publisher: Mansukhlal Shah

View full book text
Previous | Next

Page 55
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org. Acharya Shri Kailassagarsuri Gyanmandir जगत्प्रशस्या जननी जगत्पितु- महासती मन्दरशैलसन्निभा । त्वमेव वामे ! भुवि भानुरत्नसू - नमोऽस्तु तुभ्यं नृपवासवार्चिते ॥ १८ ॥ जगदिति । महती चासौ सती च महासती पतिव्रता शिरो रत्नं मन्दरवासौ शैलच तेन संनिभा मन्दरपर्वता सदृशी यथा मन्दरो वातादिभिश्चालयितुमशक्यस्तथा विटैः शिलादिभ्यश्चालयितुमशक्या अत एव मन्दरसादृश्यं जगतः पिता तस्य जगत्पितुः, तीर्थेश्वरस्य जननी माता जगति प्रशंसितुं योग्या जगत्मशंस्या जनमर्शनायोग्या वामे ! भुवि भूतले भानुस्तदेव रत्नं तत्सूते भानुरत्नसुः सूर्यमणिजननी त्वमेवासि नृपः वासव इव तेन अर्चिता पूजिता तत्संबुद्धौ नृपामराधिपपूजिते तुभ्यं नमोऽस्तु । इयं तीर्थेश्वरमातुः प्रशंसायोग्यत्वात् ॥ १८ ॥ समुद्धृताशेषजगन्निवासिको, विभुश्च्युतो युर्दशमादवातरः । मधोश्चतुर्थीदिवसे सितेतरे, प्रजापवित्रीकरणाय भूतले ॥ १९ ॥ समुष्वेति । सम्यक् उन्द्रताः अशेषाः समग्राः जगतिनिवासो येषां ते जगन्निवासिकाः जगत्वास्तव्याः, येन स विभुः प्रभुः श्वासौ शमशमस्तस्मात् दशमदेवलोकात् मधोः मधुमासस्य सितादितरस्तस्मिन् कृष्णपक्षे चतुर्थी चासौ दिवसश्च तस्मिन् चैत्रकष्णचतुर्थ्यां प्रजानां पवित्रीकरणं तस्मै जनपावित्र्यार्थ भूवस्तलं तास्मिन्भूमौ अवतारः अवतरितवान् ॥ १९ ॥ मुनीश ! पौषोदशमी स्वदस्युहा, न कस्य शस्या विशदापि शासिता । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76