Book Title: Jain Stotra Sangraha Part 01
Author(s): Yashovijay Jain Pathshala
Publisher: Yashovijay Jain Pathshala

View full book text
Previous | Next

Page 5
________________ युष्मच्छब्दनवस्तवी। श्रीनन्दिषेणगणिसंस्तुतपादपद्मौ देयास्तमस्तविपदं सुखसम्पदं मे ॥ ६ ॥ इति यु मत्पदद्विवचनबहुव्रीह्येकवचनमयो द्वितीय: श्रीअजितशान्तिस्तवः। ॥अहम् ॥ कल्याणकदिनपञ्चकसुरपतिततिविहितदिव्यमहिमानः। स्तुतिगोचरीक्रियन्ते मया जिना ध्वस्तसमवृजिनाः॥१॥ हृद्भक्तिगोचरानीतत्वं स्यादासन्नसिद्धिकः । सङ्कटेऽयुत्कटे ध्यातयुष्मां नाऽऽयाति दुःखिता॥२॥ प्रासादरथापितस्वर्णरूप्यादिमययुष्मया । निर्मीयन्ते नरेणोच्चैः स्ववशाः सर्वसम्पदः ॥३॥ अङ्गाद्यर्चाराधिततुभ्यं कः श्लाघते न देहभृते । आभरणमालभारीकृतयुष्मद् भाग्यवान् कोऽन्यः॥४॥ अभिष्टुततवाऽष्टाऽपि सिद्धयः स्युः सहर्द्धयः। सम्यग्विधिसमाराद्धयुष्मयि स्युः श्रियः स्थिराः॥५॥ ध्यातृध्येयोभयीभूतयूयं जीयास्त हे जिनाः । युष्मच्छब्दबहुत्वाऽन्यपदैकवचनस्तुताः ॥ ६ ॥

Loading...

Page Navigation
1 ... 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 ... 120