Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 153
________________ १०६ देवेन्द्रसूरिविरचितः सावचूरिकः [ गाथा 1 पञ्चकयुता च पञ्चसप्ततिस्तामौदारिक मिश्रकाययोगी सम्यक्त्वे बध्नाति । तथा सयोगिन औदारिक मिश्रस्थाः केवलिसमुद्धाते द्वितीयषष्ठसप्तमसमयेषु सातमेवैकं बध्नन्ति । एवं गुणस्थानक - चतुष्क एवैौदारिकमिश्रयोगो लभ्यते नान्यत्र । अथ कार्मणयोगादिषु बन्धः प्रतिपाद्यते "विणु तिरि" इत्यादि । यथौदारिक मिश्रे बन्धविधिरोधतो विशेषतश्वोक्तः एवं कार्मणयोगेsपि तिर्यमरायुषी विना वाच्यः, कार्मणकाययोगे तिर्यमरायुषोर्बन्धाभावात् । कार्मणकाययोगो ह्यपान्तरालगतावुत्पत्तिप्रथमसमये च जीवस्य मिथ्यात्वसासादनाऽविरत गुणस्थानकत्रयोपेतस्य लभ्यते । उक्तं च--- मिच्छे ससाणे वा, अविरसम्मम्मि अहव गहियम्मि । जंति जिया परलोए, सेसिक्कारस गुणे मुत्तुं ॥ ( प्रव० गा० १३०६ ) तथा सयोगिनः केवलिसमुद्धाते तृतीयचतुर्थपश्चमसमयेषु चेति गुणस्थानकचतुष्टय एव कार्मणका योगो नान्यत्र । ततो विंशत्युत्तरशतमध्याद् आहारकषट्कतिर्यमरायुःप्रकृतीर्मुक्त्वा शेषस्य द्वादशोत्तरशतस्य सामान्येन कार्मणकाययोगे बन्धः । तदेव द्वादशोत्तरशतं जिनादि • पचकं विना शेषं सप्तोत्तरशतं कार्मणकाययोगे मिध्यादृशो बध्नन्ति । तदेव सप्तोत्तरशतं सूक्ष्मादित्रयोदश प्रकृतीर्मुक्त्वा शेषां चतुर्नवतिं कार्मणयोगे सासादना बघ्नन्ति । चतुर्नवतिरेबाऽनन्तानुबन्ध्यादिचतुर्विंशतिप्रकृतीर्विना जिननामादिप्रकृतिपञ्चकसहिता च पञ्चसप्ततिस्तां कार्मणयोsवरता बन्ति । सयोगिनस्तु कार्मणकाययोगे सातमेवैकं बध्नन्ति । तथाऽऽहारककाय योगश्चतुर्दशपूर्वविदः, आहारक मिश्रकाययोगश्च तस्यैवाऽऽहारकशरीरस्य प्रारम्भसमये परित्यागसमये च औदारिकेण सह द्रष्टव्यः । ततः 'आहारकद्विके' आहारकशरीर तन्मिश्रलक्षणे योगद्वये ओषः कर्मस्तवोक्तः प्रमत्तगुणस्थानवर्ती त्रिषष्टिप्रकृतिबन्धरूपः । एतत् काययोगद्वयं हि लब्ध्युपजीवनात् प्रमत्तस्यैव न त्वप्रमत्तस्य ॥ १५ ॥ सुरओहो वेउव्वे, तिरियनराउरहिओ य तम्मिस्से | deतिगाइम बिय तिय, कसाय नव दु चउ पंच गुणा ॥ १६ ॥ व्याख्या- ' सुरौघः' सामान्यदेवबन्धो वैक्रियकाययोगे द्रष्टव्यः । तद्यथा सामान्येन चतुरशतम्, मिथ्यात्वे त्र्युत्तरशतम्, सासादने षण्णवतिः, मिश्र सप्ततिः, अविरते द्विसप्ततिः । तथा 'तन्मिश्रे' वैक्रियामश्रे स एव सुरौधस्तिर्यमरायुष्करहितो वाच्यः । इह देवनारका निजायुः षण्मासावशेषा एवायुर्वन्ति, अतो वैक्रियमिश्रयोगे उत्पत्तिप्रथमसमयादनन्तरमपर्याप्ताव - स्थासम्भविनि आयुर्द्वयबन्धाभावः । तथा चाऽत्रौघे ह्युत्तरशतन, मिथ्यात्व एकोत्तरशतम्, सासादने चतुर्नवतिः, अविरत एकसप्ततिः । वैक्रियमिश्रयोगो मिश्रता चाऽस्यात्र कार्मणकार्येनैव सह मन्तव्या । अयमपि च मिथ्यात्वसासादनाऽविरतगुणस्थानकत्रय एव लभ्यते नान्यत्र । यद्यपि देशविरतस्याऽम्बडादेः प्रमत्तस्य तु विष्णुकुमारादेवैक्रियं कुर्वतो वैक्रियमिश्रवैकियसम्भवः श्रूयते परं स्वभावस्थस्य वैक्रिययोगस्याऽत्र गृहीतत्वाद् अथवा स्वल्पत्वाद् अन्यतो वा १ मिथ्यात्वं सासादने वाऽविरतसम्यक्त्वेऽथवा गृहीते । यान्ति जीवाः परलोकं शेषेकादश गुणस्थानानि मुक्खा || २ भावम् अहिगए अहवा । प्रवचनसारोद्धारे वेवं पाठः ॥

Loading...

Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289