Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 218
________________ ३७ ] षडशीतिनामा चतुर्थः कर्ममन्यः । १७१ अतो निरयादिभ्यः सकाशात् स्तोका नराः, तेभ्यो नारका असङ्घयेयगुणाः । यत एवमनुयोगद्वारेषु नारकपरिमाणमुपदर्श्यते नेरहयाणं भंते ! केवइया वेडवियसरीरा पन्नता ? गोयमा ! दुविहा पन्नत्ता, तं जहा - बद्धिलया मुकिल्लया य । तत्थ णं जे ते बद्धिल्लया ते णं असंखेजा असंखिज्जाहिं उस्सप्पिणिअवसप्पिणीहिं अवहीरंति कालओ, खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखेज्जहभागो । वासि णं ढणं विक्खंभसूई अंगुलपढमवग्गमूलं बीयवग्गमूलपडुप्पन्नं, अहव णं अंगुळबिइयवमामूलघणपमाणमित्ताओ सेढीओ ॥ ( पत्र १९९ - २ ) अस्येयमक्षरगमनिका— नारकाणां बद्धानि वैक्रियशरीराण्यसङ्ख्येयानि, प्रतिनारकसेकैक्कवैकियसद्भावाद् नारकाणां चासयेयत्वात्, तानि च कालतोऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीसमयराशितुल्यानि । क्षेत्रतस्तु प्रतरा सङ्ख्ये य भाग वर्त्यसङ्ख्येयश्रेणीनां ये प्रदेशास्तत्सङ्ख्यानि भवन्ति । ननु प्रतरासङ्ख्येयभागेऽसङ्ख्येययोजनकोटयोऽपि भवन्ति तत् किमेतावत्यपि क्षेत्रे या नभः श्रेणयो भवन्ति ता इह गृह्यते ? न, इत्याह - " तासि णं सेढीणं विक्खंभसूई" इत्यादि । तासां श्रेणीनां विष्कम्भसूचिर्विस्तरश्रेणिर्ब्राह्मेति शेषः । कियती ? इत्याह – “अंगुल " इत्यादि । अङ्गुलप्रमाणे प्रतरक्षेत्रे यः श्रेणिराशिः तत्र किलासङ्ख्येयानि वर्गमूलान्युत्तिष्ठन्ति अतः प्रथमवर्गमूलं द्वितीयवर्गमूलेन प्रत्युत्पन्न - गुणितम्, तथा च यावन्त्योऽत्र श्रेणयो लब्धा एतावत्प्रमाणश्रेणीनां विष्कम्भमूचिर्भवति, एतावत्यः श्रेणयोऽत्र गृह्यन्त इत्यर्थः । इदमुक्तं भवति – अङ्गुलप्रमाणे प्रतरक्षेत्रे किलाsसत्कल्पनया पट्पञ्चाशदधिके द्वे शते श्रेणीनां भवतः, तद्यथा - २५६, अत्र प्रथमं वर्गमूलं १६, द्वितीयं ४, चतुर्भिश्च षोडश गुणिता जाता चतुःषष्टिः ६४, एषा चतुःषष्टिरपि सद्भावतोsयाः श्रेणयो मन्तव्याः, एतावत्सङ्ख्य श्रेणीनां विस्तरसूचिरिह प्राया । अथवा 'णं' इति वाक्यालङ्कारे, अयं द्वितीयः प्रकारः प्रस्तुतार्थविषये । तथाहि – “अङ्गुलबिइयवग्गमूलघण” इत्यादि । अङ्गुलप्रमाणप्रतर क्षेत्रवर्तिश्रेणिराशेर्यद् द्वितीयवर्गमूलमनन्तरं चतुष्टयरूपं दर्शितं तस्य यो घनश्चतुःषष्टिलक्षणस्तत्प्रमाणाः श्रेणयोऽत्र गृह्यन्त इति प्ररूपणैव भिद्यतेऽर्थतस्तु स एव । इदमत्र तात्पर्यम् – सप्तरज्जुप्रमाणस्य घनीकृतस्य लोकस्य या ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्र क्षेत्रपदेशराशिगतद्वितीयवर्गमूलघनप्रदेशराशिप्रमाणास्तासां यावान् प्रदेशराशिस्तावत्प्रमाणा नारकाः, अतस्ते नरेभ्योऽसङ्ख्यातगुणा एव ॥ एतेभ्योऽपि देवा असङ्ख्यातगुणाः । कथम् ? इति चेद् उच्यते — देवा हि भवनपत्यादिभेदेन चतुर्धा, भवनपतयोऽसुरादिभेदेन दशविधाः । तत्राऽसुरकुमारा अपि तावद् घनीकृतस्य लोकस्य या ऊर्ध्वाधआयता एकप्रादेशिक्यः श्रेणयोऽङ्गुलमात्रक्षेत्रगतप्रदेशराशिसम्बन्धिप्रथमवर्गमूलासङ्ख्येयभागगतप्रदेशराशिप्रमाणास्तासां सम्बन्धी यावान् प्रदेशराशिस्तावत्सङ्ख्याकाः, एवं नागकुमारादयोऽपि द्रष्टव्याः । तथा सत्येययोजनप्रमाणाकाशप्रदेशसूचिरूपैः खण्डैर्यावद्भिर्धनी कृतस्य लोकस्य मण्डकाकारः प्रतरोऽपह्रियते तावत्प्रमाणा व्यन्तराः । उक्तं च--- संखेज्जजोयणाणं, सूइपएसेहि भाइयं पयरं । वंतरसुरेहिं हीरइ, एवं एक्केकमेएणं || ( पञ्चसं० गा० ४८ )

Loading...

Page Navigation
1 ... 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289