Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 181
________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः [गामा वा भवेद् अवेदो वा, तत्र सवेदः श्रेणिप्रतिपत्त्यभावे उपशमश्रेणिमतिपतौ वा, आपकश्रेणिपतिपत्तौ स्ववेद इति । उक्तं च-- 'वेदो पवित्तिकाले, इत्थीवजो उ होइ एगयरो। पुष्वपडिवन्नओ पुण, होज सवेओ अवेओ वा ॥ (पञ्चव० गा० १४९७) ... कल्पद्वारे-स्थितकल्प एवायं नास्थितकल्पे, "ठियकप्पम्मि वि नियमा" (पञ्चव० गा० १५३३) इति वचनात् । तत्राऽऽचेलक्यादिषु दशस्वपि स्थानेषु ये स्थिताः साधवस्तत्कल्पा स्थितकल्प उच्यते, ये पुनश्चतुषु शय्यातरपिण्डादिष्ववस्थितेषु कल्पेषु स्थिताः शेषेषु चाऽऽचेलक्यादिषु षट्वस्थितास्तत्कल्पोऽस्थितकल्पः । उक्तं च-- ठिय अढिओ य कप्पो, आचेलकाइएस ठाणेसु । सन्वेसु ठिया पढमो, चउ ठिय छसु अट्ठिया बीओ।। (पञ्चव० गा० १४९९) आचेलक्यादीनि च दश स्थानान्यमूनि आचेलकुइसियसिज्जायररायपिंडकिइकम्मे । वयजिट्ठपडिक्कमणे, मासंपज्जोसवणकप्पे ॥ (पञ्चव० गा० १५००) चत्वारश्चावस्थिताः कल्पा इमे सिज्जोयरपिंडम्मी, चाउज्जामे य पुरिसजेटे य । किइकम्मम्स य करणे, चतारि अवट्ठिया कप्पा ॥ (पञ्चाश० १७ गा० १०) लिङ्गद्वारे--नियमतो द्विविधेऽपि लिने भवति । तद्यथा---द्रव्यलिङ्गे भावलिङ्गे च । एकेनापि विना विवक्षितकल्पोचितसामाचार्ययोगात् । लेश्याद्वारे-तेजःप्रभृतिकासूत्तरासु तिसृषु विशुद्धासु लेश्यासु परिहारविशुद्धिकं कल्पं प्रतिपद्यते, पूर्वप्रतिपन्नः पुनः सर्वास्वपि कथञ्चि भवति, तत्राऽपीतराखविशुद्धलेश्यासु नात्यन्तसंक्लिष्टासु वर्तते, तथाभूतासु वर्तमानो न प्रभूतं कालमवतिष्ठते, किन्तु स्तोकम् , यतः खवीर्यवशात् झटित्येव ताभ्यो व्यावर्तते । अथ प्रथमत एव कस्मात् प्रवर्तते ? उच्यते--कर्मवशात् । उक्तं च लेसासु विसुद्धासुं, पडिवज्जइ तीसु न उण सेसासु । पुन्वपडिवन्नओ पुण, हुज्जा सव्वासु वि कहंचि ॥ नचंतसंकिलिट्टासु थोवकालं च हंदि इयरेसु । चित्ता कम्माण गई, तहा वि विरियं फलं देह ।। (पञ्चव० गा० १५०३-४) १ वेदः प्रवृत्तिकाले स्त्रीवर्जस्तु भवति एकतरः । पूर्वप्रतिपन्नकः पुनर्भवेत् सवेदोऽवेदो वा ॥ २ स्थितकल्प एव नियमात् । ३ स्थितोऽस्थितश्च कल्पः आचेलक्यादिकेषु स्थानेषु । सर्वेषु स्थिताः प्रथमः चतुर्ष स्थिताः षट्स्वस्थिता द्वितीयः ॥ ४ आचेलक्यौदेशिकशय्यातरराजपिण्डकृतिकर्माणि । प्रतज्येष्ठप्रतिक्रमणानि मासपर्यषणाकल्पौ॥ ५ शयातरपिण्डे चतुर्यामे च पुरुषज्येछये च । कृतिकर्मणश्च करणे चलारोऽवस्थिताः कल्याः॥ ६ पञ्चाशके प्रवचनसारोद्धारे च-'ठिइकप्पो मज्झिमाणं तु' इत्येवं पाठः ॥ ७ लेश्यासु विशुद्धा प्रतिपद्यते तिसषु न पुनः शेषाम् । पूर्वप्रतिपक्षकः पुनर्भवेत् सर्वाखपि कश्चित् ॥ नात्यन्तसंक्लिष्टासु स्तोककालं पहन्दि इतरासु । चित्रा कर्मणां गतिः तथापि वीर्य फलं ददाति ॥ ८ इयराम घ० पश्चवस्तुकेच :

Loading...

Page Navigation
1 ... 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289