Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 182
________________ १३५ १२) षडशीतिनामा चतुर्थः कर्मग्रन्थः । भ्यानद्वारे-~-धर्मध्यानेन प्रवर्तमानेन परिहारविशुद्धिकं कश्पं प्रतिपयते । पूर्वप्रतिपन्नः पुनरातरौद्रयोरपि भवति केवलं प्रायेण निरनुबन्धः । उक्तं च-- झाणम्मि वि धम्मेणं, पडिवजइ सो पवड्डमाणेणं । इयरेसु वि झाणेसुं, पुव्वपवनो न पडिसिद्धो॥ ऐवं च कुसलजोगे, उद्दामे तिव्वकम्मपरिणामा । रुदद्देसु वि भावो, इमस्स पायं निरणुबंधो ।। (पञ्चव० गा० १५०५-६) गणद्वारे-जघन्यतायो गणाः प्रतिपद्यन्ते, उत्कर्षतः शतसमपाः । पूर्वप्रतिपन्ना जघन्यत उत्कर्षतो वा शतशः । पुरुषगणनया जघन्यतः प्रतिपद्यमानाः सप्तविंशतिः, उत्कर्षतः सहस्रम् । पूर्वप्रतिपन्नाः पुनर्जघन्यतः शतशः, उत्कर्षतः सहस्रशः । आह च--- गणओ तिन्नेव गणा, जहन्न पडिवत्ति सयस उक्कोसा । उक्कोसजहन्नेणं, सयसु च्चिय पुन्वपडिवन्ना ।। सत्तावीस जहन्ना, सहस्समुक्कोसओ य पडिवत्ती। सयसो सहस्ससो वा, पडिवन्न जहन्न उक्कोसा ॥ (पञ्चव० गा० १५३४-३५) अन्नच यदा पूर्वप्रतिपन्नः कल्पमध्याद् एको निर्गच्छति अन्यः प्रविशति तदोनप्रक्षेपे प्रतिपत्ती कदाचिद् एकोऽपि भवति पृथक्त्वं वा । उक्तं च --- पंडिवज्जमाण भइया, इक्को वि य हुज ऊणपक्खेवे । पुवपडिवन्नया वि य, भइया एको पुहत्तं वा ॥ (पञ्चव० गा० १५३६) अभिग्रहद्वारे--अभिग्रहाश्चतुर्विधाः । तद्यथा---द्रव्याभिग्रहाः क्षेत्राभिग्रहाः कालाभिग्रहा भावाभिग्रहाश्च विचित्रा भवन्ति । तत्र परिहारविशुद्धिकस्य इमेऽभिग्रहा न भवन्ति, यस्माद् एतस्य कल्प एव यथोदिसकसोऽभिग्रहो वर्तते । उक्तं च दवाईय अभिग्गह, विचित्तरूवा न हुंति पुण केई । एयर्स जावकप्पो, कप्पु चियऽभिग्गहो जेण ॥ ऐयम्मि गोयराई, नियया नियमेण निरववाया य । तप्पालणं चिय परं, एयस्स विसुद्धिठाणं तु ॥ ( पञ्चव० गा० १५०९-१०) __ प्रव्रज्याद्वारे-नासावन्यं प्रव्राजयति कल्पस्थितिरेषेति कृत्वा । उक्तं च १ ध्यानेऽपि धर्मेण ( ध्यानेन ) प्रतिपद्यतेऽसौ प्रवर्धमानेन । इतरेष्वपि भ्यानेषु पूर्वप्रपन्नो न प्रतिषिद्धः॥ एवं च कुशलयोगे उद्दामे तीव्रकर्मपरिणामात् । रौद्रातयोरपि भावोऽस्य प्रायो निरनुबन्धः ॥ २ एवं अकु. क०ख० ग०प०अ०॥ ३ गणतनय एव गणा जघन्या प्रतिपत्तिः शतश उत्कृष्टा । उत्कृष्टजघन्याभ्यां शतश एवं पूर्वप्रतिपमाः ॥ सप्तविंशतिर्जघन्या सहस्राण्युत्कृष्टतश्च प्रतिपत्तिः । शतशः सहस्रशोबा प्रतिपमा जघन्या उत्कृटा ॥ ४ प्रतिपद्यमाना भक्ता एकोऽपि च भवेद् ऊनप्रक्षेपे । पूर्वप्रतिपनका अपि च भका एकः पृथक्त्वं वा॥ ५ द्रव्यादिका अभिग्रहा विचित्ररूपा न भवन्ति पुनः केऽपि । एतस्य यावत्कल्पं कल्प एवाभिप्रहो येन ॥ ६००वाईआऽभि इति पञ्चवस्तुके ॥ ७°ति इत्तिरिआ। इति पअषस्तके। ८स आवकहिओ कप्पो चि° इति पश्चवस्तुके॥ ९एतस्मिन् गोचरादयो नियता नियमेन निरपवादाश्च । तत्पालनमेव परभेतस्य विशुद्धिस्थानं तु॥

Loading...

Page Navigation
1 ... 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289