Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
अथ ग्रन्थकारप्रशस्तिः।
विष्णोरिव यस्य विभोः, पदत्रयी व्यानशे जगन्निखिलम् । सूक्ष्मार्थसार्थदेशी, स श्रीवांगे जिनो जयतु ॥ १ ॥ कुन्दोज्वलकीर्तिभरैः, सुरभीकृतसकलविष्टपाभोगः । शतमखशतविनतपदः, श्रीगौतमगणधरः पातु ॥ २ ॥ तदनु सुधर्मस्वामी, जम्बप्रभवादयो मुनिवरिष्ठाः । श्रुतजलनिधिपारीणा, भूयांसः श्रेयसे सन्तु ॥ ३ ॥ ततः प्राप्ततपाचार्येत्यभिख्या भिक्षुनायकाः । समभूवन् कुले चान्द्रे, श्रीजगचन्द्रसूरयः ॥ ४ ॥ जगजनितबोधानां, तेषां शुद्धचरित्रिणाम् । विनेयाः समजायन्त, श्रीमद्देवेन्द्रसूरयः ॥ ५ ॥ खान्ययोरुपकाराय, श्रीमद्देवेन्द्रसुरिणा। षडशीतिकटीकेयं, सुखबोधा विनिर्ममे ॥ ६ ॥ विबुधवरधर्मकीर्तिश्रीविद्यानन्दसरिमुग्ख्यबुधैः । खपरसमयैककुशलैम्तदेव संशोधिता चेयम् ॥ ७ ॥ यद्गदितमल्पमतिना. सिद्धान्तविरुद्धमिद किमपि शास्त्रे । विद्वद्भिस्तत्त्वज्ञैः, प्रसादमावाय तच्छोध्यम् ॥ ८ ॥ पडशीतिकशास्त्रमिदं, विश्वता यन्मयाऽर्जितं सुकृतम् । तेनास्तु भव्यलोकः, सूक्ष्मार्थविचारणाचतुरः ॥ ९ ॥ ग्रन्थानम् २८०० । सर्वग्रन्थानम् ५९३८ अ. २८ ॥
wamannamoram-
-
१ इति कर्मग्रन्थचतुष्टपात्मकः प्रथमो विभागः । franarayacacas canas

Page Navigation
1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289