Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 258
________________ ८०-८२ ] षडशीतिनामा चतुर्थः कर्मग्रन्थः । २११ उक्तः सूत्राभिप्रायः । साम्प्रतं मतान्तरगतमसङ्ख्यातानन्तकत्ररूपमाह – “अन्ने वग्गिय" इत्यादि । अन्ये आचार्याः - एके सूरय एवमाहुः, यथा --- ' - 'चतुर्थकमसङ्ख्यं' जघन्ययुक्तासङ्ख्यातकरूपं 'वर्गितं' तावतैव राशिना गुणितं सत् " एकसि" ति एकवारं 'भवति' जायते - सम्पद्यते असङ्ख्यासहयं 'लघु' जघन्यम् जघन्यासङ्ख्यातासल्यातकं भवतीत्यर्थः । अत्रापि मते असङ्ख्यातकमुद्दिश्य मध्यमोत्कृष्टभेदप्ररूपणा पूर्वोक्तवेति दर्शयन्नाह - "रुवजुयं तु तं मज्झं" ति रूपेणसर्षपलक्षणेन युतं रूपयुतं ‘तुः' अवधारणे व्यवहितसम्बन्धश्च 'तद्' इति तदेवानन्तराभिहितं जघन्यासयासत्येयादिकम् किं भवति ? इत्याह-- 'मध्यं' मध्यमासमयेयासत्येयादिकं भवति ॥८०॥ वृणमाइमं गुरु, ति वग्गिउं तं इमं दस क्रखेवे । लोगrirever, घम्साघम्मेगजियदेसा ॥ ८१ ॥ तदेव जघन्यासत्येयासङ्ख्येयादिकं 'रूपोनम' एकेन रूपेण रहितं सद् 'आदिमं' तदपेक्षया आद्यस्य राशेः सम्वन्धि 'गुरु' उत्कृष्टं भवतीति । अयमत्राशयः- - जघन्यासत्येयासत्येयकं रूपनं स युक्तायातकमुत्कृष्टकं भवति, जघन्यपरीत्तानन्तं रूपोनमसङ्ख्येयासङ्ख्येयकमुत्कृष्टं भवति, जघन्ययुक्तानन्तं तु रूपोनमुत्कृष्टं परत्तानन्तं भवति, जघन्यानन्तानन्तकं तु रूपोनमुकृष्टं युक्तान्त भवतीति । अधुना जघन्यपरीतानन्तकं मतान्तरेण प्ररूपयन्नाह - "ति aftग तं" इत्यादि । 'नद्' इति प्रागभिहितं जघन्यासत्यासत्येयकं 'त्रिर्वर्गयित्वा' सदृशद्विराशी परस्परं त्रीन्वारानभ्यस्येत्यर्थः । अयमत्राशयः -- जघन्यासत्ये यासत्येयकराशेः सदृशद्विराशिगुण लक्षण वर्गों विधीयते तस्यापि वर्गराशेः पुनर्वर्गः क्रियते तस्यापि वर्गराशेः पुनरपि वर्गो निष्पाद्यत इति । ततः किम् इत्याह इमान्' वक्ष्यमाणस्वरूपान् 'दश' इति दशसयान् क्षिप्यत इति कर्मणि घञि क्षेपाः प्रक्षेपणीयराशयस्तान् 'क्षिपत्र' निधेहीत्युत्तरगाथायां सम्बन्धः । तथाहि - लोकाकाशस्य प्रदेशाः १ धर्मश्च अधर्म एकजीवश्च धर्माधर्मैकजीवास्तेषां देशाः - प्रदेशाः । अयमत्रार्थः धर्मास्तिकायमदेशाः २ अधर्मास्तिकायप्रदेशाः ३ एकजीवप्रदेशाः ४ ॥ ८१ ॥ तथा ठिबंधझवसाया, अणुभागा जोगछेयपलिभागा । दुह् य समाण समया, पत्तेयनिगोयए विवसु ॥ ८२ ॥ स्थितिबन्धस्य कारणभूतान्यध्यवसायस्थानानि कपायोदयरूपाण्यध्यवसायशब्देनोच्यन्ते, तान्यसङ्ख्येयान्येव । तथाहि--- ज्ञानावरणस्य जघन्योऽन्तर्मुहूर्तप्रमाणः स्थितिबन्धः, उत्कृष्टतस्तु त्रिंशत्सागरोपमकोटाकोटीप्रमाणः, मध्यमपदे त्वेकद्वित्रिचतुरादिसमयाधिकान्तर्मुहूर्तादिकोऽस मेदः, एषां च स्थितिबन्धानां निर्वर्तकान्यध्यवसायस्थानानि प्रत्येकमसङ्ख्येयलोकाकाशप्रदेशप्रमाणानि भिन्नान्येव, एवं च सत्येकस्मिन्नपि ज्ञानावरणेऽसङ्घयेयानि स्थितिबन्धाध्यवसायस्थानानि लभ्यन्ते, एवं दर्शनावरणादिष्वपि वाच्यम् । " अणुभाग" त्ति 'अनुभागाः' ज्ञानावरणादिकर्मणां जघन्यमध्यमादिभेदभिन्ना रसविशेषाः, एतेषां चानुभागविशेषाणां निर्वर्तकान्यसङ्घयेयलोकाकाशप्रदेशप्रमाणान्यध्यवसायस्थानानि भवन्त्यतोऽनुभागविशेषा अप्येतावन्त एव द्रष्टव्याः, कारणभेदाश्रितत्वात् कार्यभेदानाम् । "जोगछेयपलिभाग” त्ति योग: मनोवाक्काय

Loading...

Page Navigation
1 ... 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289