Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 215
________________ [माथा १६८ देवेन्द्रसूरिविरचितखोपाटीकोपेतः तत्वात् । ‘शेषस्थानेषु' सुरगतौ तिर्यम्गतौ मनुष्यगतौ पञ्चेन्द्रियत्रसकाययोगत्र्यवेदत्रयकषायचतुष्टयमतिज्ञानश्रुतज्ञानावधिज्ञानमनःपर्यायज्ञानमत्यज्ञानश्रुताज्ञानविभङ्गज्ञानसामायिकच्छेदोपस्थापनपरिहारविशुद्धिकदेशविरताविरतचक्षुर्दर्शनाचक्षुर्दर्शनावधिदर्शनभव्याभव्यक्षायिकक्षायोपशमिकौपशमिकसाखादनमिश्रमिथ्यात्वसंश्याहारकानाहारकलक्षणैकचत्वारिंशत्सु शेषमार्गणास्थानकेषु षडपि लेश्याः । ___उक्ता मार्गणास्थानेषु लेश्याः । इदानीं मार्गणास्थानेषु खस्थानापेक्षयाऽल्पबहुत्वं निरूपयिषु राह—'नरनिरय' इत्यादि । इह यथासङ्ख्येन योजना कर्तव्या । सा चैवम्-नरा निरयदेवतिर्यग्योनिकेभ्यः सकाशात् स्तोकाः । यत इह द्विविधा नराः----वान्तपित्तादिजन्मानः सम्मूर्छजाः, स्त्रीगर्भोत्पन्नाः गर्भजाश्च । तत्राद्याः कदाचिद न भवन्त्येव, जघन्यतः समयस्य उत्कृष्टतस्तु चतुर्विशतिमुहूर्तानां तदन्तरकालस्य प्रतिपादितत्वात् ।। यदाह सन्देहसन्दोहशैलशृङ्गभङ्गदम्भोलिभगवान् जिनभद्रगणिक्षमाश्रमणः बारस मुहुत्त गन्भे, उक्कोस समुच्छिमेमु चउवीसं । उकोस विरहकालो, दोसु वि य जहन्नओ समओ।। (बृ० सं० पत्र १३०-१) उत्पन्नानां तु जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परतः सर्वेषां निलेपत्वसम्भवाद् यदा तु भवन्ति तदा जघन्यत एको द्वौ त्रयो वा, उत्कृष्टतस्त्वसङ्ख्याताः । इतरे तु सर्वदैव सद्ध्येया भवन्ति नासङ्ख्येयाः, तत्र सङ्ख्येयकस्य सङ्ख्यातभेदत्वान्न ज्ञायते कियदपि सङ्ख्येयकम् अतो विशेषत इदं प्ररूप्यते---इह षष्ठवर्गः पञ्चमवर्गेण यदा गुणितो भवति तदा गर्भजमनुप्यसङ्ख्या भवति । अथ कोऽयं षष्ठः (ग्रन्थानम्-१५००) वर्ग: ? कश्च पञ्चमः ? इत्येतदुच्यते-- विवक्षितः कश्चिद् राशिस्तनैव राशिना यत्र गुण्यते स तावद् वर्गः । तत्रैकस्य वर्ग एव न भवति, अतो वृद्धिरहितत्वादेष वर्ग एव न गण्यते । द्वयोस्तु वर्गश्चत्वारो भवन्ति, एष प्रथमो वर्गः ४ । चतुर्णा वर्गः षोडशेति द्वितीयो वर्ग: १६ । षोडशानां वर्गो द्वे शते पट्पञ्चाशदधिक तृतीयो वर्गः २५६ । अस्य राशेर्वर्गः पञ्चषष्टिः सहस्राणि पञ्च शतानि पत्रिंशदधिकानि चतुर्थों वर्गः ६५५३६ । अस्य राशेर्वर्गः सार्धगाथया प्रोच्यते चत्तारि य कोडिसया, अउणतीसं च हुति कोडीओ। अउणावन्नं लक्खा, सत्तहि चेव य सहम्सा ॥ दो य सया छन्नउया, पंचमवग्गो इमो विणिद्दिट्टो । ( अनु० चू० पत्र ७०) अकस्थापना-४२९४९६७२९६ । अस्यापि राशेर्वों गाथात्रयेण प्रतिपाद्यते---- लक्खं कोडाकोडी, चउरासीइं भवे सहम्साई । १ सा चैक्ये द्वन्द्वमेययोरिति 'एकचलारिंशति' इति माव्यम्, भविष्यत्यपि, तथापि लेखकेन पण्डितंमन्येन वा केनाप्येतद् अङ्कितं लक्ष्यते ॥ २ द्वादश मुहूर्ता गर्भजेषु सम्मूछिमेषु चतुर्विंशतिः । उत्कर्षतो विरहकालः द्वयोरपि च जघन्यतः समयः ॥ ३ चलारि च कोटिशतानि एकोनशिश्च भवन्ति कोटयः । एकोनपश्चाशद् लक्षाः सप्तषष्टिरेव च सहस्राणि ॥ द्वे च शते षण्णवतिः पश्चमबर्गोऽयं विनिर्दिष्टः ॥४°ग्गो समासत्तो होति ५ लक्ष कोटाकोरी चतुरशीतिभवन्ति सहसामि ।

Loading...

Page Navigation
1 ... 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289