Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 254
________________ ७७-७९] षडशीतिनामा चतुर्थः कर्मग्रन्थः । २०७ इत्युक्तं त्रिविधमपि सत्यकम् । इदानीं नवविधमसत्येयकं नवविधमेव चानन्तकं निरुखपयिषुर्गाथायुगमाह रूवजुयं तु परित्तासंखं लहु अस्स रासि अभासे । जुत्तासंखिजं लहू, आवलियासमयपरिमाणं ॥ ७८ ॥ पूर्वोक्तमेवोत्कृष्टं येयकं 'रूपयुतं तु' रूपेण एकेन सर्षपेण पुनर्युक्तं सत् 'लघु' जघन्यं 'परी'तास' परीत्तासेयकं भवति । इदमत्र हृदयम् - इह येनैकेन सर्पपरूपेण रहितोऽनन्तरोद्दिष्टो राशिरुत्कृष्टसङ्ख्यातमुक्तं तत्र राशौ तस्यैव रूपस्य निक्षेपो यदा क्रियते तदा तदेवोत्कृष्टं सख्यातकं जघन्यं परीत्तासयातकं भवतीति । इह च जघन्यपरीत्तासङ्ख्येयकेऽभिहिते यद्यपि तस्यैव मध्यमोत्कृष्टभेदप्ररूपणावसरस्तथापि परीत्तयुक्तनिजपद भेदतस्त्रिभेदानामप्यसङ्ख्ये यकानां मध्यमो - कृष्टभेद पश्चादल्पवक्तव्यत्वात् प्ररूपयिष्येते, अतोऽधुना जघन्ययुक्तासख्यानकं तावदाह-"अम्स रासि अवभासे" इत्यादि अस्य राशेः - जधन्यपरीत्तासह्येयकगतराशेः 'अभ्यासे परस्परगुने सति 'लघु' जघन्यं युक्तासयेयकं भवति । तच्च 'आवलिकासमयपरिमाणम्' आवलिका"असंखिजाणं समयाणं समुदयसमिइसमागमेणं" ( अनुयो० पत्र १७८-२ ) इत्यादिसिद्धान्तप्रसिद्धा तम्याः समया:- निर्विभागाः कालविभागास्तत्परिमाणमावलिकासमयपरिमाणम्, जघन्ययुक्तासत्येयकतुल्य समय राशिप्रमाणा आवलिका इत्यर्थः । एतदुक्तं भवति - जघन्यपरीता सङ्ख्येयकसम्बन्धी यावन्ति सर्वपलक्षणानि रूपाणि तान्येकैकशः पृथक् पृथक् संस्थाप्य तत एकैकस्मिन् रूपे जघन्यपरीत्तासल्यातकप्रमाणो राशिर्व्यवस्थाप्यते, तेषां च राशीनां परस्परमभ्यासो विधीयते । इहैवं भावना---असत्कल्पनया किल जघन्यपरीत्तासङ्ख्येयकराशिस्थाने पञ्च रूपाणि कल्प्यन्ते, तानि वित्रियन्ते- - जाताः पञ्चैककाः १११११, एककानामधः प्रत्येकं पश्चैव वाराः पञ्च पञ्च व्यवस्थाप्यन्ते । तद्यथा-33333 | अत्र पञ्चभिः पञ्च गुणिता जाता पञ्चविंशतिः, साऽपि पञ्चभिराहता जातं पञ्चविंशं शतम् इत्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि ३१३५ । एष कल्पनया तावदेतावन्मात्रो राशिर्भवति, सद्भावतस्वसङ्ख्येरूपो जघन्ययुक्तासङ्ख्यातकतया मन्तव्य इति ॥ ७८ ॥ निरूपितं जघन्ययुक्तासत्येयकम् । सम्प्रति शेषजघन्यासङ्ख्याता सङ्ख्यातकभेदस्य जघन्यपरीत्तानन्तकादिस्वरूपाणां त्रयाणां जघन्यानन्तकभेदानां च स्वरूपमतिदेशतः प्रतिपिपादयिषुराहवितिचउपंचमगुणणे, कमा सगासंख पढमचउसत्त । ता ते रूवजुया, मज्झा रूवूण गुरु पच्छा ॥ ७९ ॥ इह ‘“संखिज्जेगमसंखं” ( गा० ७१ ) इत्यादिगा थोपन्यस्तोत्कृष्टसङ्ख्यातकादिमौल सप्तपदापेक्षया सङ्ख्यातकाद्यभेदविकलानि यानि परीत्तासङ्ख्यातकादीनि पट् पदानि तानि परीत्तासङ्ख्यातकानन्तानन्तक भेदद्वयविकलानि द्वित्रिचतुः पञ्चसङ्ख्यात्वेन प्रोक्तानि । ततः 'द्वित्रिचतुःपञ्चम १ असङ्ख्येयानां समयानां समुदयसमितिसमागमेन ॥ २ मौलसप्तपदानि त्वेतानि -- उत्कृष्ट सङ्ख्यातकम् १ परीत्ता सख्यातकम् २ युक्तासङ्ख्यातकम् ३ असङ्ख्याता सङ्ख्यातकम् ४ परीत्तानन्तकम् ५ युक्तानन्तकम् ६ अनन्तानन्तकम् ७ ॥

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289