Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 236
________________ ६०-६४] षडशीतिनामा चतुर्थः कर्मग्रन्थः । १८९ स्तूदीरणा पूर्वोक्तकारणादेव न भवति । "णुदीरगु अजोगि" त्ति अयोगिकेवली न कस्यापि कर्मण उदीरकः, योगसव्यपेक्षत्वाद् उदीरणायाः, तस्य च योगाभावादिति ॥ उक्ता गुणस्थानकेषूदीरणास्थानयोजना । सम्प्रति गुणस्थानकेष्वेव वर्तमानानां जन्तूनामल्पस्वबहुत्वमाह - " थेव उवसंत" त्ति स्तोकाः 'उपशान्ताः' उपशान्तमोहगुणस्थानवर्तिनो जीवाः, यतस्ते प्रतिपद्यमानका उत्कर्षतोऽपि चतुःपञ्चाशत्प्रमाणा एव प्राप्यन्त इति । तेभ्यः सकाशात् क्षीणमोहाः समयेयगुणाः, यतस्ते प्रतिपद्यमानका एकस्मिन् समयेऽष्टोत्तरशतप्रमाणा अपि लभ्यन्ते । एतचोत्कृष्टपदापेक्षयोक्तम् अन्यथा कदाचिद् विपर्ययोऽपि द्रष्टव्यः -- स्तोकाः क्षीणमोहाः, बहवस्तु तेभ्य उपशान्तमोहाः । तथा तेभ्यः क्षीणमोहेभ्यः सकाशात् सूक्ष्मसम्परायानिवृत्तिबादरापूर्वकरणा विशेषाधिकाः । स्वस्थाने पुनरेते चिन्त्यमानास्त्रयोऽपि 'समाः ' तुल्या इति ॥ ६२ ॥ जोगि अपमत्त इयरे, संखगुणा देससासणामीसा । अविरय अजोगिमिच्छा, असंख चउरो दुवे णंता ॥ ६३ ॥ तेभ्यः सूक्ष्मादिभ्यः सयोगिकेवलिनः सङ्ख्यातगुणाः, तेषां कोटीपृथक्त्वेन लभ्यमानत्वात् । तेभ्योऽप्रमत्ताः सङ्ख्यगुणाः, कोटीसहस्रपृथक्त्वेन प्राप्यमाणत्वात् । तेभ्यः “इयरे" ति अप्रमत्त प्रतियोगिनः प्रमत्ताः सहधेयगुणाः । प्रमादभावो हि बहूनां बहुकालं च लभ्यते विपर्ययेण स्वप्रमाद इति न यथोक्तसयाव्याघातः । " देस" इत्यादि देशविरतसाखादनमिश्राविरतलक्षणाश्चत्वारो यथोत्तरमसङ्ख्येयगुणाः । अयोगिमिय्यादृष्टिलक्षणौ च द्वौ यथोत्तरमनन्तगुणैौ । तत्र प्रमत्तेभ्यो देशविरता असङ्ख्येयगुणाः, तिरश्चामप्यसङ्ख्यातानां देशविरतिभावात् । साखादनास्तु कदाचित् सर्वथैव न भवन्ति, यदा भवन्ति तदा जघन्येनैको द्वौ वा, उत्कर्षतस्तु देशविरतेभ्योऽप्ययगुणाः । तेभ्योऽपि मिश्रा असश्येयगुणाः, साखादनाद्धाया उत्कर्षतोऽपि षडावलिकामात्रतया स्तोकत्वात्, मिश्राद्धायाः पुनरन्तर्मुहूर्तप्रमाणतया प्रभूतत्वात् । तेभ्योऽप्यसङ्ख्येगुणा अविरतसम्यग्दृष्टयः, तेषां गतिचतुष्टयेऽपि प्रभृततया सर्वकालसम्भवात् । तेभ्योऽप्ययोगिकेवलिनो भवस्थाभवस्थभेदभिन्ना अनन्तगुणाः, सिद्धानामनन्तत्वात् । तेभ्योऽप्यनन्तगुणा मिथ्यादृष्टयः, साधारणवनस्पतीनां सिद्धेभ्योऽप्यनन्तगुणत्वात् तेषां च मिथ्यादृष्टित्वादिति ॥ ६३ ॥ तदेवमभिहितं गुणस्थानवर्तिनां जीवानामल्पबहुत्वम् । इदानीं “नमिय जिणं जियमग्गण" ( गा० १ ) इत्यादि द्वारगाथासूचितं भावद्वारं व्याचिख्यासुराहउवसमग्वयमीसोदयपरिणामा दु नव ठार इगवीसा । तियभेय सन्निवाहय सम्मं चरणं पढम भावे ॥ ६४ ॥ इह किल षड् भावा भवन्ति । विशिष्टहेतुभिः खतो वा जीवानां तत्तद्रूपतया भवनानि भवन्त्येभिरुपशमादिभिः पर्यायैरिति वा भावाः । किंनामानः पुनस्ते : इत्याह-- " उवसमखयमीसोदय" इत्यादि । अत्र सूचकत्वात् सूत्रस्यैवं प्रयोगः, " उवसम" त्ति औपशमिको भावः, "ख" चि क्षायिको भावः, "मीस" त्ति क्षायोपशमिको भावः, "उदय" त्ति औदयिको भावः, "परिणाम" ति पारिणामिको भावः । तत्रोपशमनमुपशमः - विपाकप्रदेशरूपतया द्विवियस्य विष्कम्भणं स एव तेन वा निर्वृत्त औपशमिकः । क्षयः - कर्मणोऽत्यन्तोच्छेदः

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289