Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 249
________________ २०२ देवेन्द्रसूरिविरचितसोपजदीकोपेतः [गाथा शयः-एतेषां व्यावर्णितखरूपाणां चतुर्णामपि पल्यानां मध्याद् यो यथावसर सर्षपैः पूर्यते तं योजनसहस्रावगाहादूर्द्ध समधिकाष्टयोजनोच्छ्रितवेदिकान्तं पूरयित्वा तदुपरि तावत् शिखा वर्धनीया यावद् एकोऽपि सर्षपो नावतिष्ठत इति । अत्र सर्वे सवेदिकान्ताः सशिखभृताश्च कर्तव्या इति सामान्योक्तावपि प्रथममनवस्थितपल्य एव भृतः करणीयः । शेषास्तु यथावसरमेवेति मन्तव्यमिति ।। ७३ ॥ अधुना तस्यानवस्थितपल्यस्य जम्बूद्वीपप्रमाणस्य सर्षपैर्भूतस्य यद् विधेयं तदाह तो दीवुदहिसु इकिक सरिसवं खिविय निहिए पढमे । पढमं व तदंतं चिय, पुण भरिए तम्मि तह वीणे ॥७४॥ 'ततः' सर्षपभरणादनन्तरमसत्कल्पनया केनचिद् देवेन दानवेन वा वामकरतले धृत्वा 'द्वीपोदधिषु' द्वीपसमुद्रेपु एकैकं 'सर्षपं' सिद्धार्थे क्षिप्त्वा 'निष्ठिते' अन्तर्भूतण्यर्थत्वात् निष्ठापितेरिक्तीकृते 'प्रथम' अनवस्थितपल्ये, कोऽर्थः ? एकं मर्षयं द्वीपे प्रक्षिपति, एकमुदधौ, पुनरप्येकं द्वीपे, एकमुदधौ, एवं प्रतिद्वीपं प्रत्युदधिं चैकैकं सर्षपं प्रतिक्षिपन्नसौ देवो वा दानवो वा तावद् गतो यावदनवस्थितपल्यो निष्ठितो भवति । ततः किं विधेयम् ? इत्याह ---"पढमं व" इत्यादि। द्वीपे समुद्रे वा यत्रासावनवस्थितपल्यो निष्ठितो भवति "तदंतं चिय"त्ति स एवानवस्थितपल्यस्य निष्ठाकारी द्वीपः समुद्रो वाऽन्तः पर्यवसानं प्रमाणतया यस्य द्वितीयानवस्थितपल्यम्य स तदन्तस्तम् , द्वितीयानवस्थितपल्यप्रमाणाभिधायकं विशेषणमिदम् , ततस्तदन्तमेव चियशब्दम्यावधारणार्थत्वाद् विस्तीर्णतया तावत्प्रमाणमेवेत्यर्थः । 'प्रथममिव' आद्यपल्यमिवेत्युपमानेन द्वितीयमनवस्थितपल्यमपि सहस्रयोजनावगाढमष्टयोजनोच्छ्रितजगत्युपरिवेदिकोपशोभितं सशिख सर्पपैभृतं कुर्यादिति सूचयति । नतः प्रथमानवस्थितपल्यमिव तदन्तमेव 'पुनः' भूयः 'भृते' सर्पपै: पूरिते 'तस्मिन्' द्वितीयानवस्थितपल्ये 'तथा तेन प्रकारेण निक्षिप्तचरमसर्षपद्वीपादेरग्रत एकः सर्षपो द्वीपे, एकः समुद्रे इत्यादिना क्षीणे' निष्ठिते सति द्वितीयानवस्थितपल्ये ॥ ७४ ॥ ततः किं विधेयम् ? इत्याह --- विप्पइ सलागपल्लेगु सरिसवो इय सलागव(ग्वि)वणेणं । पुन्नो बीओ य तओ, पुवं पिव तम्मि उद्धरिए ॥७२॥ 'क्षिप्यते' निधीयते शलाकापल्ये द्वितीये शलाकासंज्ञक एकसय्य एव सर्षपः, स च नानवस्थितपल्यसत्कः किन्त्वन्य एवेत्यवसीयते, "पुण भरिए तम्मि तह खीणे" (गा० ७४) इति सूत्रावयवम्य सामम्त्यरिक्तीकरणप्रतिपादनपरत्वात् । अन्ये वनवस्थितपल्यसत्क एव क्षिप्यते इत्याचक्षते, तत्त्वं तु केवलिनो विदन्तीति । आह किमिति द्वितीयपल्य एव निष्ठिते सत्येकस्य सर्षपस्य शलाकापल्ये प्रक्षेपणमभिहितं यावता प्रथमपल्येऽपि निष्ठिते तत्रैकस्य सर्षपस्य प्रक्षेपो युज्यते ? इति, तदयुक्तम् , अभिप्रायापरिज्ञानात् , यतोऽनवस्थितपल्यशलाकामिरेवासी पूरणीयः, प्रथमश्च लक्षयोजनविस्तृतत्वेनावस्थितपरिमाणतयाऽनवस्थित एव न भवतीत्यतो द्वितीयाद्यनवस्थितपल्यशलाका एव तत्र प्रक्षेपमहन्तीति । न चैतत् खमनीषिकाविजृम्भितम् , यदुक्तमनुयोगद्वारेषु

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289