Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 183
________________ १३६ देवेन्द्रसूरिविरचितखोपनटीकोपेतः [गाथा . पवाएइ न एसो, अन्नं कप्पट्टिइ ति काऊणं । ( पञ्चव० गा०..१५११) उपदेशं पुनर्यथाशक्ति प्रयच्छति । मुण्डापनद्वारेऽपि नासावन्यं मुण्डापयति । अथ प्रव्रज्यामन्तरं नियमतो मुण्डनमिति प्रव्रज्याग्रहणेनैव तद् गृहीतमिति किमर्थ पृथग् द्वारम् ? तदयुक्तम् , प्रवज्यानन्तरं नियमतो मुण्डनस्याऽसम्भवात् , अयोग्यस्य कथञ्चिदत्तायामपि प्रव्रज्यायां पुनरयोग्यतापरिज्ञाने मुण्डनायोगाद् , अतः पृथगिदं द्वारमिति । प्रायश्चित्तविधिद्वारे----मनसाऽपि सूक्ष्ममप्यतिचारमापन्नस्य नियमतश्चतुर्गुरुकं प्रायश्चित्तमस्य, यत एष कल्प एकाग्रताप्रधानस्ततस्तदने गुरुतरो दोष इति । कारणद्वारे--कारणं नामाऽऽलम्बनम् , तत्पुनः सुपरिशुद्धं ज्ञानादिकम् , तचास्य न विद्यते येन तदाश्रित्याऽपवादपदसेविता स्यात् , एष हि सर्वत्र निरपेक्षः क्लिष्टकर्मक्षयनिमित्तं प्रारब्धमेव खं कल्पं यथोक्तविधिना समापयन् महात्मा वर्तते । उक्तं च कोरणमालंबणमो, तं पुण नाणाइयं सुपरिसुद्धं । एयम्स तं न विजइ, उचियं तवसौहणोपायं ।। संवत्थ निरवयक्खो, आढवियं सं दढं समाणतो । वट्टइ एस महप्पा, किलिट्टकम्मक्खयनिमित्तं ॥ (पञ्चव० गा० १५१७-१८) निष्प्रतिकर्मताद्वारे-एष महात्मा निष्पतिकर्मशरीरोऽक्षिमलादिकमपि कदाचिद् नापनयति, न च प्राणान्तिकेऽपि व्यसने समापतिते द्वितीयपदं सेवते । उक्तं च निप्पंडिकम्मसरीरो, अच्छिमलाई वि नावणेइ सया। पाणंतिए वि य महावसणम्मि न वट्टए बीए ॥ अप्पबहुत्तालोयणविसयाईओ उ होइ एस ति । अहवा सुहभावाओ, बहुगं पेयं चिय इमस्स ॥ (पञ्चव० गा० १५१९-२०) भिक्षाद्वारे-भिक्षा विहारक्रमश्चाऽस्य तृतीयस्यां पौरुप्यां भवति, शेषासु च पौरुषीषु कायोत्सर्गः, निद्राऽपि चाऽस्माऽल्पा द्रष्टव्या । यदि पुनः कथमपि जवाबलमस्य परिक्षीणं भवति तथाऽप्येकोऽविहरन्नपि महाभागो न द्वितीयपदमापद्यते, किन्तु तंत्रेव यथाकल्पमात्मीययोगान् विदधाति । उक्तं च--- तइयाए पोरिसीऍ, भिक्खाकालो विहारकालो उ । सेसासु य उम्सग्गो, पाय अप्पा य निद्दौ वि ॥ (पञ्चव० गा० १५२१) प्रवाजयति नेषोऽन्यं कल्पस्थितिरिति कृत्वा ॥ २ कारणमालम्बनं तत् पुनः ज्ञानादिकं सुपरिशुद्धम् । एतस्य तन विद्यते उचितं तपःसाधनोपायः ॥ ३ पञ्चवस्तुके तु-साहणा पायं- साधनात्प्रायः ॥ ४ सर्वत्र निरपेक्ष आहतं खं दृढं समापयन् । वर्तते एष महात्मा क्लिष्टकर्मक्षयनिमित्तम् ॥ ५°रववक्खोक० घ० १०॥ ६ °ढवियं चेव सं सख०। पञ्चवस्तुके तु-आढत्तं चिय द° ॥ ७ निष्प्रतिकर्मशरीरोऽक्षिमलाद्यपि नापनयति सदा । प्राणान्तिकेऽपि च महाव्यसने न वर्तते द्वितीये ॥ ८ पञ्चवस्तुके तु-तहा व° ॥ ९ अल्पबहुखालोचनविषयातीतस्तु भवत्येष इति । अथवा शुभभावाद् बहुकमप्येतदेवास्य ॥ १० तृतीयस्यां पौरुष्यां भिक्षाकालो विहारकालस्तु । शेषासु च उत्सर्गः प्रायोऽल्पा च निद्राऽपि ॥११ निद ति॥ इति पञ्चवस्तुके॥

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289