Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 204
________________ २७-२८] षडशीतिनामा चतुर्थः कर्मग्रन्थः । १५७ तद् अयुक्तम्, सम्यक् सिद्धान्तापरिज्ञानात्, अवैक्रियाणामपि तेषां खभावत एव चेष्टोपपत्तेः । यदाह भगवान् श्रीहरिभद्रसूरिरनुयोगद्वारटीकायाम् बोकाइया चउव्विहा - सुहुमा पज्जत्ता अपज्जत्ता, बादरा वि य पज्जता अपज्जता । तत्थ तिनि रासी पत्तेयं असंखेज्जलोगप्पमाणप्पएसरासिपमाणमित्ता, जे पुण बादरा पज्जत्ता ते पयरासंखेज्जइभागमित्ता । तत्थ ताव तिप्हं रासीणं वेउबियलद्धी चेव नत्थि । बायरपज्जत्ताणं पि असंखिज्जइभागमित्ताणं लद्धी अस्थि । जेसि पि लद्धी अत्थि ते वि पलि ओवमासंखिज्जभागसमयमित्ता संपयं पुच्छासमए वेउबियवत्तिणो । तथा जेण सबेसु चेवं उडलोगाइसु चला वायवो विनंति तम्हा अवेविया वि वाया वायंति त्ति घित्वं । सभावो तेसिं वाइयवं । ( पत्र ९२, अनु० चू० पत्र ६७ ) इति । 1 । वानाद्वायुरिति कृत्वा “तिण्हं रासीणं" ति त्रयाणां राशीनां पर्याप्तापर्याप्तसूक्ष्मापर्याप्तबादरवायुकायिकानाम् । तथा त एव पूर्वोक्ताः पञ्च कार्मणौदारिकद्विकवैक्रियद्विकलक्षणयोगाः चरमाचतुर्थी असत्यामृषरूपा वाग् वचनयोगश्चरमवाक् तया युक्ताः षड् योगा भवन्ति । क ? इत्याह‘असंज्ञिनि’ संज्ञिव्यतिरिक्ते जीवे । तत्र कार्मणमपान्तरालगतावुत्पत्तिप्रथमसमये च, औदारिकमिश्रमपर्याप्तावस्थायाम्, पर्याप्तावस्थायामौदारिकम् । बादरपर्याप्तवायुकायिकानां वैक्रियद्विकम्, चरमभाषा शङ्खादिद्वीन्द्रियादीनामिति । त एव पूर्वोक्ताः षड् योगा वैक्रियद्विकेन - वैक्रियवैक्रियमिश्रलक्षणेन ऊना:- हीनाश्चत्वारो भवन्ति । क ? इत्याह- 'विकलेषु' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रियेषु । कोऽर्थः : तत्र कार्मणौदारिकद्विकभावना प्राग्वत् । चरमभाषा च असत्यामृषरूपा शङ्खादीनां भवति, शेषास्तु भाषा न भवन्त्येव “ विगैलेसु असच्चामोसे वा” इति वचनादिति ॥ २७ ॥ कम्मुरलमीस विणु मण, वह समइय छेय चक्खु मणनाणे । उरलदुग कम्म पढमंतिम मणवह केवलदुगम्मि ॥ २८ ॥ कार्मणमौदारिक मिश्रं विना शेषास्त्रयोदश योगा भवन्ति । क्क : इत्याह--मनोयोगे वाग्योगे सामायिकसंयमे छेदोपस्थापनसंयमे चक्षुर्दर्शने मनः पर्यायज्ञाने । भावना सुकरैव । यौ तु कार्मदारिकमश्र तौ तेषु सर्वथा न सम्भवत एव, तयोरपर्याप्तावस्थायां भावात् मनोयोगवाम्योगसामायिकच्छेदोपस्थापनचक्षुर्दर्शनमनः पर्यायज्ञानानां च तस्यामवस्थायामसम्भवात् । तथा "उरदुग" त्ति औदारिकद्विकमौदारिकौदारिकमिश्रकार्मणकाययोगौ [ मिश्रकाययोगौ ] सयोग्यवस्थायामेव समुद्घातगतस्य वेदितव्यौ [ "कम्म" ति कार्मणकाययोगः ] १ वायुकायिकाश्चतुर्विधाः -- सूक्ष्माः पर्याप्ताः १ अपर्याप्ताः २, बादरा अपि च पर्याप्ताः ३ अपर्याप्ताः ४ ग तत्र यो राशयः प्रत्येकं असङ्ख्येयलोकप्रमाणप्रदेशराशिप्रमाणमात्राः, ये पुनर्बादराः पर्याप्तास्ते प्रतरासङ्ख्यातभागमात्राः । तत्र तावत् त्रयाणां राशीनां वैक्रियलब्धिरेव नास्ति । बादरपर्याप्तानामपि असङ्ख्यातभागमात्राणां लब्धिरस्ति । येषामपि लब्धिरस्ति तेऽपि पत्योपमासङ्ख्येयभागसमयमात्राः साम्प्रतं पृच्छासमये वैकुर्विकवर्त्तिनः । तथा येन सर्वेष्वेव ऊर्ध्वलोकादिषु चला वायवो विद्यन्ते तस्मादवैकुर्विका अपि वाता वान्तीति प्रहीतव्यम् । स्वभावस्तेषां वातव्यम् । २ °व लोगा° ख० अनुयोगद्वारलघुटीकायाम् । 'व लोगागासाइ° अनुयोगद्वार चूर्णो ॥ ३ विकलेषु असत्यामृषा वा ॥ ४ इतऊर्द्धम् -- "केवलद्विके' केवलज्ञानकेवलदर्शनरूपे सप्त योगाः । के ते ? इत्याह--' इत्येवंरूपः पाठो यदि स्थात्तदा सङ्गतिमेति ॥ ५ दारिकमिश्रकार्म क० ख० ० ० ङ० ॥

Loading...

Page Navigation
1 ... 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289