Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 217
________________ [गाथा . १७० देवेन्द्रसूरिविरचितखोपज्ञटीकोपेतः प्रदेशपरिमाणोऽप्यसत्कल्पनया षट्पञ्चाशदधिकशतद्वयपरिमाणः कल्प्यते २५६; अत्र प्रथम वर्गमूलं षोडश १६, द्वितीयं वर्गमूलं चत्वारि ४, तृतीयं वर्गमूलं द्वे २; तत्र प्रथमवर्गमूलं षोडशलक्षणं तृतीयवर्गमूलेन गुणितं जाता द्वात्रिंशत् ३२, एवमेते नभःप्रदेशाः सद्भावतोऽसजोया अप्यसत्कल्पनया द्वात्रिंशत्सङ्ख्याः परिग्राह्याः । ततः श्रेणेमध्याद् यथोक्तप्रमाणं द्वात्रिंशत्पदेशप्रमाणमित्यर्थः क्षेत्रखण्ड यद्येकैकं मनुष्यरूपं क्रमेण प्रतिसमयमपहरति तदाऽसङ्ख्येयोत्सर्पिण्यवसर्पिणीभिः सर्वाऽपि श्रेणिरपहियते यद्येक मनुष्यरूपं स्यात् , तच्च नास्ति, सर्वोत्कृष्टानामपि समुदितगर्भजसम्मूर्छजमनुष्याणामेतावतामेव भावात् । इदमुक्तं भवति --उत्कृष्टपदवर्तिभिरपि सर्वतः सप्तरज्जुप्रमाणस्य धनीकृतस्य लोकस्यैकैकप्रदेशपतिरूपं श्रेणिमात्रमपि अङ्गुलमात्रक्षेत्रप्रदेशराशिसम्बन्धितृतीयवर्गमूलगुणितप्रथमवर्गमूलप्रदेशप्रमाणैरसत्कल्पनया षट्पञ्चाशदधिकशतद्वयप्रमाणाङ्गुलमात्रक्षेत्रप्रदेशराशिसम्बन्धिद्विकलक्षणतृतीयवर्गमूलगुणितषोडशकलक्षणप्रथमवर्गमूललब्धद्वात्रिंशत्प्रदेशप्रमाणैराकाशखण्डैर्मनुप्यरूपस्थानीयैरपहियमाणमपि नापहियते, एकरूपहीनत्वात् ; यदि पुनरेकं रूपमन्यत् स्यात् ततः सकलाऽपि श्रेणिरपहियेत । कालतश्च प्रतिसमयमेतावत्प्रमाणैरप्याकाशखण्डैरपहियमाणा श्रेणिरसङ्ख्याताभिरुत्सर्पिण्यवसर्पिणीभिनिःशेषतोऽपहियते, कालतः सकाशात् क्षेत्रस्यात्यन्तसूक्ष्मत्वात् । उक्तं च---- उक्कोसपए जे मणुम्सा हवंति तेसु इक्वम्मि मसरूवे पक्खित्ते समाणे तेहिं मणुम्सेहिं सेढी अवहीरइ । तीसे य सेढीए कालखित्तेहिं अवहारो मग्गिज्जइ--कालओ ताव असंखिज्जाहिं उम्सप्पिणीओसप्पिणीहिं, खित्तओ अंगुलपढमवग्गमूलं तइयवग्गमूलपडप्पन्नं । किं भणियं होइ !------ तीसे सेढीए अंगुलायए खंडे जो पएसरासी तम्स जं पमवग्गमूलपएसरासिमाणं तं तइयवग्गमूलपएसरासिपडप्पाइए समाणे जो पएसरासी हबइ एवइएहिं खंडेहिं अवहीरमाणी अवहीरमाणी जाव निट्ठाइ ताव मणुस्सा वि अवहीरमाणा अवहीरमाणा निर्दृति । आह कहमेगा सेढी पदहमित्तेहिं खण्डेहिं अवहीरमाणी अवहीरमाणी असंखेज्जाहिं उम्सप्पिणिओसप्पिणीहिं अवहीरइ ? आयरिओ आह-खेत्तम्स सुहुमत्तणओ । मुत्ते वि जं भणियं----- सुहुमो य होइ कालो, तत्तो सुहुमयरयं हवइ खित्तं । अंगुलसेढीमिते, ओसप्पिणीओ असंखिज्जा ॥ ( अनु० चू० पत्र ७२ ) इति । १ उत्कृष्टपदे ये मनुष्या भवन्ति तेष्वेकस्मिन् मनुष्यरूये प्रक्षिप्ते सति तर्मनुष्यैः श्रेणिरपहियते । तस्याश्च श्रेणेः कालक्षेत्राभ्यां अपहारो मृग्यते-कालतस्तावदनयेयाभिरुत्मर्पिण्यवसर्पिणीभिः, क्षेत्रतोऽङ्गुलप्रथमवर्गमूल ततीयवर्गमलगुणितमा कि मणितं भवति?-तस्याः श्रेणरन्डलायते खण्डे यः प्रदेशराशिः तस्य यत प्रथमवर्गमूलप्रदेशराशिमानं तत् तृतीयवर्गमूलप्रदेशराशिगुणिते सति यः प्रदेशराशिभवति एतावद्भिः खण्डरपहियमाणाऽपहियमाणा यावमिस्तिष्ठति तावद् मनुष्या अपि अपहियमाणा अपहियमाणा निस्तिष्ठन्ति । आह कथमेका श्रेणिरेतावन्मात्रः खण्डरपहियमाणा अपहियमाणा असलयाभिरुत्सर्पिण्यवसर्पिणीभिरपहियते? आचार्य आह-क्षेत्रस्य सूक्ष्मत्वात् । सूत्रेऽपि यद्भणि ----सूक्ष्मश्च भवति कालस्ततः सूक्ष्मतरकं भवति क्षेत्रम् । अगुलश्रेणिमात्रेऽवर्पिण्योऽसल्येयाः ॥ २ जाव अनुयोगद्वारचूर्णी ॥ ३ °दुप्पाडितं अनुयोगद्वारचूर्णी ॥ ४ ढमं वग्गमूलं तं तइयवग्गमूलपाएगरासिणा पडप्पातिज्जइ, पटुप्पाडिते समाणे जो रासी हवा एवइएहिं खण्डेहि सा सेढी अव अनुयोगदारचूर्णी॥ ५ गाथेयमावश्यकनियुक्तौ सप्तत्रिंशत्तमी ।।

Loading...

Page Navigation
1 ... 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289