Book Title: Chatvara Karmgranth
Author(s): Chaturvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 227
________________ देवेन्द्रसूरिविरचितखोपज्ञटीकोपैतः [ गाथा : औदारिकमिश्रमपर्याप्तावस्थायाम्, कार्मणं त्वपान्तरालगतौ । यद्वा उमे अपि केवलिसमुद्धातावस्थायाम्, ततस्ते अप्यत्र गुणस्थानकपञ्चके न सम्भवत इति । तथा त एव पूर्वोक्ता नव योगाः सवैक्रियाः सन्तो दश योगाः 'मिश्र' सम्यग्मिथ्यादृष्टिगुणस्थानके भवन्ति । तथाहि - चतुर्विधमनोयोगचतुर्विधवाग्योगौदारिकवैक्रियलक्षणा दश योगा मिश्र भवन्ति, न शेषाः । तद्यथा - आहारकद्विकस्याऽसम्भवः पूर्वाधिगमासम्भवादेव, कार्मणशरीरं त्वपान्तरालगतौ सम्भवति, अस्य च मरणासम्भवेनाऽपान्तरालगत्यसम्भवस्ततस्तस्याप्यसम्भवः । अत एवौदारिकवैक्रियमिश्रे अपि न सम्भवतः, तयोरपर्याप्तावस्थाभावित्वात् । १८० ननु मा भूद् देवनारकसम्बन्धि वैक्रियमिश्रम्, यत् पुनर्मनुष्यतिरश्यां सम्यग्मिथ्यादृशां वैकिलब्धिमतां वैक्रियकरणसम्भवेन तदारम्भकाले वैक्रियमिश्रं भवति तत् कस्माद् नाभ्युपगम्यते ? उच्यते----तेषां वैक्रियकरणासम्भवादन्यतो वा यतः कुतश्चित् कारणात् पूर्वाचार्यैर्नाभ्युपगम्यते तन्न सम्यगवगच्छामः, तथाविधसम्प्रदायाभावात् एतच्च प्रागेवोक्तमिति । तथा त एव पूर्वोक्ता नव योगाः 'सवैक्रियद्विकाः' वैक्रियवैक्रियमिश्रसहिताः सन्त एकादश 'देशे' देशविरते भवन्ति, अम्बस्येव वैक्रियलब्धिमतो देशविरतस्य वैक्रियारम्भसम्भवादिति ॥ ४६ ॥ साहारदुग पमन्ते, ते विउवाहारमीस विणु इयरे । कम्मुरलदुगंताइममणवयण सजोगि न अजोगी ॥ ४७ ॥ पूर्वोक्ता एवैकादश योगाश्चतुर्विधमनोयोगचतुर्विधवाग्योगौदारिकवैक्रियद्विकलक्षणाः 'साहारकद्विकाः' आहारकाहारकमिश्रसहिताः सन्तस्त्रयोदश योगाः प्रमते भवन्ति । औदारिकमिश्रकार्मणका योगाभावस्तु पूर्वोक्तयुक्तेरेवावसेय इति । त एव पूर्वोक्तास्त्रयोदश योगा वैक्रियमिश्राहारकमिश्रं विना एकादश 'इतरस्मिन्' अप्रमत्तगुणस्थानके भवन्ति । तथाहि-- चतुर्विधमनोयोगचतुर्विधवाम्योगौदारिकवैक्रियाहारकलक्षणा एकादश योगा अप्रमत्ते । यत्तु वैक्रियमिश्रमाहारक मिश्रं च तन्न सम्भवति, तद् वैक्रियस्याहारकस्य च प्रारम्भेकाले भवति, तदानीं च लब्ध्युपजीवनादिनौत्सुक्यभावतः प्रमादभावः सम्भवतीति । तथैौदारिकमिश्रमपर्याप्तावस्थायाम्, कार्मणं त्वपान्तरालगतौ । यद्वा उभे अपि केवलसमुद्घातावस्थायाम्, ततस्ते अप्यत्र गुणस्थानके न सम्भवत इति । तथा कार्मणम् 'औदारिकद्विकम् ' औदारिकौदारिकमिश्रलक्षणम् अन्त्यादिममनसी - सत्यासत्यामृषरूपौ मनोयोगौ अन्त्यादिमवचने - सत्यासत्यामृषलक्षणौ वाग्योगौ चेति सप्त योगाः सयोगिकेवलिनो भवन्ति, कार्मणौदारिकमिश्रे तु समुद्धातावस्थायामिति । 'न' नैव पञ्चदशयोगमध्यादेकेनापि योगेन युक्तः 'अयोगी' अयोगिकेवली भवति, योगाभावनिबन्धनत्वादयोगित्वावस्थाया इति ॥४७॥ उक्ता गुणस्थानकेषु योगाः । अधुनैतेष्वेवोपयोगानभिधातुकाम आह तिअनाण दुदंसाइमदुगे अजइ देसि नाणदंसतिगं । ते मीसि मीस समणा, जयाह केवलिदुगंतदुगे ॥ ४८ ॥ 'आदिमद्विके' मिथ्यादृष्टिसाखादनलक्षणप्रथमद्वितीयगुणस्थानकद्वय इत्यर्थः । “तिअनाण दुदंस” त्ति त्रयाणामज्ञानानां समाहारख्यज्ञानं-मत्यज्ञानश्रुताज्ञानविभङ्गज्ञानरूपं, दर्शनं दर्शो १ 'कमिश्र क० ग० घ० ॥ २ भादिका क० ग० घ० ३० ॥

Loading...

Page Navigation
1 ... 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289