Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix)
503
तृतीयं च तुरीयं च प्रागास्ताम् । पञ्चमं तु लक्कागच्छे पूर्वकालतोऽद्यावधि सामाचार्या अनपवर्तनात् ।
एवं स्थिते गच्छव्यवहारे यत्त तपा एव गच्छ इतिवदति स एव प्रष्टव्य:-किं पूर्वकालिकव्यवहारमाश्रित्य वदति? उत अाधुनिकमाश्रित्य ? इति । यदि पूर्व कालिकं चेत् ? तन्मोहविज म्भितम्, तदानीं तपाखरतरादिसंज्ञानामभावात् । आधुनिकमाश्रित्यचेत् ? कि सर्वे गच्छास्तपानामकाः ? उत अन्ये गच्छा न सन्ति एक एव तपागच्छः ? इति । नाद्यः, पृथक्-पृथक् स्व-स्वनामभिस्तेषां प्रसिद्ध जर्जागरुकत्वात् । नान्त्यः सूत्रकारोक्त्या गच्छशब्दस्यार्याधिष्ठितसाधुसमुदायवाचकत्वेन यत्र यत्राचार्याधिष्ठितसाधसमुदायस्तत्र तत्र गच्छव्यवहारस्य प्रवृत्ते निवार्यत्वात , सेनान्यधिष्ठितयोधसमुदाये सेनाशब्दवत् । तथा च प्रत्यक्षोपलब्धेषु प्राचार्याधिष्ठितसाघुसमुदायेषु गच्छो नेति कथनं वाचालत्वमेव ।
किञ्च, तपाशब्दवाच्ये तादृश समुदाय एव गच्छशब्दप्रवृत्तिर्नान्यत्र इत्यत्र किं प्रमाणम् ? न तावत्प्रत्यक्षं, चाक्षुषदर्शनस्याविषयत्वात् । श्रावणप्रत्यक्षं तु तपाभिन्न ष्वपि उपलभ्यन्ते । न चानुमानं व्याप्त - रभावात्, यत्र यत्र तपावाच्यतादृशसमुदायत्वं तत्र तत्र गच्छत्वमिति व्याप्तिर्नास्ति व्यभिचारात, तपातिरिक्त खरतरादौ गच्छत्वस्य दृष्ट स्वात् । न च खरतरादावौपचारिकव्यवहारः, विनिगमनाविरहात् तपावाच्य एव कुतो नौपचारिक इति । नाप्युपमानं सदृशांतराभावात् । न च सेनाशब्द: सदृशान्तरं, तस्य साधारणबोधसमुदायबोधकत्वेन साधारणत्वात् । अत्र तु तपाशब्दवाच्यत्वविशिष्टे तादृशसमुदाये प्रवृत्तिकरणत्वेन विशेषत्वात् । नापि शब्द प्रागमादिष्वनूक्त:, प्रत्युत्तद्विपरीतोक्तः।
अथवा कस्तत्राचार्योपाध्याय साधुषु विशेषोऽयमश्रित्य तत्रैवा गच्छत्वप्रवृत्तिः ? न कश्चित्तदितरगच्छीयाचार्योपाध्यायसाध्वपेक्षया पुच्छविषाणादिकृतो विशेषस्तपागच्छीयाचार्योपाध्यायसाधषु दृश्यत इति ।
बच्चान्ये खरतर-लक्कादयो मतानीति कथनं तदपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634