Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
538
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
Jain Education International
देशेष्वगम्येष्वपि सञ्चरन्ती, विमाति सिद्ध ेव यदीयकीर्तिः ॥ १९॥
भूमण्डले यशसा विलिप्ते, का का ऽभूवन् बकतुल्यभासः । किश्वापणेऽज्ञायत गन्धमेदात्, कर्पूरकस्तूरिकयोर्विभेदः ||२०||
उष्णत्वमुच्चैर्वदतां कवीनां यस्य प्रतापे मतिमोह एव । यतो दधत्कम्बलमद्रिदर्या, वसन्प्रकम्पं न जहाति शत्रुः ॥ २१॥
नाथसार्थाथतपूरणार्थमर्थे जलं चोभयमाददाने । सुवर्णशैलाम्बुनिधिस्वरुपनाशप्रसङ्गाद्ययतुः प्रकम्पम् ||२२||
शौर्ये पार्थ इवापरो वितरणे देवद्र मो वाड्.मयव्यापारे सुरराट्गुरुर्वसुमतीरक्षासु विश्वम्भरः । धर्मे धर्मसुतः कवित्वकलने कायः प्रसादे शिव:, सोऽयं कूर्म कुलकभूषणमणिर्जीया च्चिरं माधवः ||२३||
यस्याच्छाच्छप्रविततयशो गीतबद्धप्रबन्धप्रक्षिप्तान्तःकरण विवशीभूतभास्यत्तनूनाम् । क्रीडन्तीनां वनभुवि गले गोपसीमन्तिनीनां, आहार: समजनि जवात् कोऽपिमुक्ताच्छहारः ||२४||
शिरः कुसुमभूषणीकृत कलानिधिस्तारकाच्छलाकलित मौक्तिका भरणभासुरा सर्वतः । विभाति वसुधापतेर्गगनमन्दिरे चन्द्रिका, वपुश्चपललोचनाविमलकीत्तिसीमन्तिनी ||२५||
कुन्तानि प्रोतदन्ताधिकबलनिहतद्वेषिदन्ताबलौघश्चिन्तासन्तान सन्तापित रिपुवनिताभाग्यसौभाग्यहन्ता । श्रीरन्ता यस्य नित्यं निवसति विपदं ताव ( ? ) हृत्करिकायां, सोऽनन्ताधीश्वरोऽयं प्रतपतु सुचिरं माधवः क्ष्माधवेशः ||२६||
4
अस्मिन्भूवलये चिरस्य कतिनो जाता धराधीश्वरा, येषां कीर्तिभरभूद्धवलितं भूमीतलं सर्वतः
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 621 622 623 624 625 626 627 628 629 630 631 632 633 634