Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
534
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
इति हि श्रूयते वारणारस्यां गोविन्दचन्द्रो नाम राजा बभूव । तत्सभायां बहवः पण्डिताः मण्डिता । गुणौद्य न तेषु दुर्दमप्रत्यर्थिवादबन्दबदनकोदण्डदण्डप्रचण्डविनिसरद्वचः प्रसरशरनिकरदुर्घर्षचतुपारावारावलयितवसुन्धरामण्डलाखण्डलायमानः पण्डितप्रकाण्डैः महितः सौहित्य गिरिमप्रकरसम्प्राप्तकविचक्रवाल महिमप्रकर्षः श्रीश्री हर्षः कविचक्रवर्ती स्वकीयनवरसनिकररुचिरं नलपृथ्वी जृम्मजिच्चरित मिति वृत्तमाश्रित्य प्रम दभरलक्षितं काव्यप्रधानं नैषधाभिधानं महाकाव्यं विरचयाञ्ज कार । सर्गबन्धाच्चामुष्य महाकाव्यत्वम् । तदुक्त दण्डिनासर्गबन्धो महाकाव्यं उच्यते । तस्य लक्षणं आशीनमस्क्रियावस्तुनिर्देशो चापि, तम्मुखमपीति । महार्थत्वाद् रसविधानत्वाच्च व्यङ्गयत्वाच्चोत्तमत्वं च । तथा च काव्यप्रकाशे-इदमुत्तममतिशायिनि व्यङ्गये वाच्याद्ध्वनिर्बुधः कथितः इति । चतुर्यु नायकेष्वत्र धीरललितो नायकः । तल्लक्षण च-धीरललितः कलासक्तः सुखी मृदुरिति । विप्रलम्भसंयोगात्मकः शृङ्गार: चात्र ज्ञयः । अन्ये सर्वेव्यङ्गभ्ता:. सर्वत्र शब्दार्थरूपाश्चालङ्काराःप्रतिश्लोकं प्राचुर्येणलक्ष्याः संक्षेपतो विस्तरतश्च वक्त मशक्याः इति । छन्दोभेदान तत्र तत्रैव दर्शयिष्यामः । इहायमादिमः श्लोक:-निपीयेति ।
CLOSING:
[सर्ग ८ श्लोकाङ्क ६१ की व्याख्या-]
अनेनेति । भो तन्वि ! कृशाङ्गि! वासवस्य-शक्रस्य असीमः अपारःत्वयि प्रेम ते स्नेहोऽपि सुमनःशरस्य कन्दर्पस्य चापे गुणा मौव्यं पि तवाऽनेन सार्द्ध अच्छिदुर:-अत्रुटनं शील: (?) सन् परांकोटि उत्कर्ष अटनीं त्वाध्यरोहति स्म ! अति उत्कर्षाश्रयः...
3408/9510 पद्यतरङ्गिणीसटीक
॥ श्रीगणेशाय नमः ।।
खद्योतो द्योतते तावद् यावन्नोदयते शशी। उदिते तु सहस्रांशी न खद्योतो न चन्द्रमा: ॥१॥
[टीका-]
श्रीकृष्णाय नमः ।
गुरुचरणसरोजद्वन्द्वमाधाय चित्त, किमपि तदनुकम्पालब्धबुद्धिप्रभावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634