Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
524
Rajasthan Oriental Research Institute, Jodhpur. (Jaipur-Collection)
Jain Education International
तप: सिद्धोऽभवद्द्योगी शालिग्रामतटे स्थितः । भजाभि चरणौ तस्य शरणागतशम्प्रदौ ||३१||
तच्छिष्यः सत्त्वसम्पन्नो गुहास्थज्ञाननिष्ठया । समाधिमान् महायोगी सर्वभूतोपकारकः ॥ ३२ ॥
नाम्ना प्रेमपाहाडीति सर्वशास्त्रविशारदः । नेपालाधिपतेः सेव्यं वन्देऽहं तं गुरु सदा ॥ ३३॥
तस्य चरणसेवायां लब्ध्वा सर्वमनोरथम् । नारायणस्य दासोऽसौ जगाम परमां गतिम् ||३४||
भजेऽहं तं दयापूर्णं पूर्णचन्द्रनिभाननम् । मतिमन्तं च तत्त्वज्ञं सांख्ययोगविशारदम् ॥३५॥
'कृष्णदासौऽभवन्महामतिः । समस्तं वैष्णवं तन्त्रं येनाधीतं सुबुद्धिना || ३६॥
वन्देऽहं तं महात्मानं केवलं करुणार्णवम् । इतिहासपुराणेषु नैपुणं निगमागमम् ||३७||
तत्प्रपन्नोऽभवच्छूरिः श्यामदासः सुबुद्धिमान् । श्यामा-श्यामौ सदा सेव्यं तत्पदं स समाप्तवान् ||३८||
नमस्येतं गुरु नित्यं तत्त्वज्ञं परमात्मनः । केवलानुभवानदं विमलीकृतचेतसम् ॥३९॥
तहास रामदासोऽभूद् रामाराधनतत्परः । वैराग्येण कृतं येन तृणीभूतं जजत्त्रयम् ॥४०॥
पादाब्जं स्वामिनस्तस्य नमस्यामि महात्मनः । समाधिस्थस्य धैर्येण ज्ञाततत्त्वस्ययोगिनः ॥ ४१ ॥
तत्पादसेवनेशीलो वेदवेदाङ्गतत्त्ववित् । नारायणस्यदासोऽभूद् द्वितीयस्तस्य संज्ञया ॥ ४२ ॥
भजामि तं गुरु सिद्ध सिद्धेश्वरैर्निषेवितम् । सर्वात्मनां मनोवृत्ति वेत्तारं योगपारगम् ||४३||
For Private & Personal Use Only
cama
www.jainelibrary.org
Loading... Page Navigation 1 ... 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634