Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix)
539
यत्काचाभरणनि पण्डितवधूस्तेषु-मुक्ताफलं, न्त्येतद्दानविधानीतिरतुला यत्रैव दृष्टाद्भुता ॥२७॥
यत्प्रतापोष्णकिरणप्रतप्तो विद्विषां गणः । शिशिरीकर्तुमात्मानमाश्रितः शिशिराचलम् ॥२८॥
कुन्दाभः स्वच्छचन्दादपि समधिकभावैरिवृन्दावमन्तामन्दानन्दानुभावो निजजनहृदयाम्भोजवृन्दावनश्रीः । नित्यं यश्चारवन्दासनभुवनगतो वाद्यवन्दारुगीत:, स्वच्छन्दं यस्य लोके विलसति नितरामद्भुतः कीर्तिपूरः ॥२९।।
देवेन्द्र द्विरदन्ति निर्जरसरित्पूरन्ति कुन्दत्यथो, मातङ्गन्द्र रदन्ति चारूचमरी वालन्ति फेनन्ति च । देवाधीश इत्ययन्ति केतकलसत्पुष्यन्ति सर्षाधिपन् , पृक्षन्त्याद्रिकुलेश्चरन्ति च सुधा सारन्ति दुग्धन्ति च ॥३०॥
कपूरन्ति हरन्ति मौक्तिकलसद्धारत्ति हीरन्त्यथो, कैलासन्ति विसन्ति मुग्धदशनज्योत्स्नन्ति हंसन्ति च । क्षीरोदन्ति हिमन्ति चन्द्रकिरणग्रामन्ति रामन्त्यपि, श्रीमन्माधवभूमहेन्द्र मुकुटालङ्कारकीर्तिच्छटाः ॥३१॥
कालिन्दीसलिलन्ति दुद्धरतमः पुञ्जन्ति मेघन्त्यथो, नीलाम्भोजकृलन्ति गारूडमहारत्नन्ति भृङ्गन्ति च । काकोलम्ति पिकन्ति कज्जलमहाशैलन्ति दन्तावलन्त्येवं यस्य च विद्विषामपयशस्तोमाः कलङ्गन्ति च ॥३२।।
दानं दातुमिहोद्यतेऽत्र सततं यस्मिन्धराधीश्वरे स्वर्णाद्रिनिजदेहदारणभयात्त्रस्तः परं कम्पते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 622 623 624 625 626 627 628 629 630 631 632 633 634