Book Title: Sanskrit and Prakrit Manuscripts Jaipur Collection Part 18
Author(s): Jinvijay, Jamunalal Baldwa
Publisher: Rajasthan Oriental Research Institute Jodhpur
View full book text ________________
Catalogue of Sanskrit and Prakrit Manuscripts, Pt. XVIII (Appendix)
537
चन्द्रो हन्त ! कलङ्ककीलिततनुः क्षारान्वितः सागरस्तेनाऽयं जगती-निरुपमः श्रीमाधवः माधवः ।।१२।।
याश्चोर्वीतलसार्वभौममुकुटालङ्कारहीरायितः, स्फूर्जद्दिव्यवयश:सुधांशुविसरचिच्छटाभासुरः । मध्याह नार्ककरप्रकर्षविजयिप्रोद्यत्प्रतापोदयो, दानोद्रेकतिरस्कृतामरतरुस्वर्धनुचिन्तामणिः ॥१३।।
मूर्तो धर्म उदेयिवान् किमथगा निष्पारिजातोऽभवत्, स्वर्ग: किं सकल: कलानिधिरगात् कर्णोऽवतीर्ण:किनु । पार्थोऽयं किमुपागतः पृथुरथो पृथ्वीवियोगातुरो, यं वीक्ष्येति निरन्तरं कविमुखादञ्चन्ति वाग्वीचयः ॥१४॥
युधिष्ठिरो भीमसेनस्तथैव यशसार्जुनः । नकुलातिक्रमी भाति सहदेवोऽच्युते रणे ।।१५।।
यं प्रोदण्डविलेशयेशविलसद्दोर्दण्डचण्डीभवत, कोदण्ड रणनिखण्डपरशोराक्रम्य भासं स्थितम् । पालोक्यालसलोचना: सरभसं नृत्यन्ति देवाङ्गनाः, कम्पन्ते हरयश्चलन्ति गिरयस्त्रस्यन्ति सर्वे रथः ॥१६॥
प्रोद्यत्कीतिवितानमण्डितनवब्रह्माण्डभाण्डोदरे, यस्मिन भूमिपती प्रशासति भुवं सौभाग्यभव्यायुषि । चाञ्चल्यं चपलासु चन्द्रवदना नेत्राञ्चले तीक्ष्णता, चन्द्र लक्ष्मकरग्रहः परिणये लोकेषु नैवाऽभवत् ।।१७।।
प्रावासो निधिसम्पदा रणभुवि त्रामः (?) प्रतिक्ष्माभृतामूल्लासः प्रतिभाजुषामतिमहान्व्यासः सभासम्पदाम् । विन्यास: सुजनाशिषां प्रतिलवं रासः कुरङ्गीदृशां, विश्वासः प्रणयात्मनां विजयते श्रीमाधवः माधवः ॥१८॥
कवीश्वराणमयपण्डितानां, प्रकाशयन्ती विमलान्तराणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634