Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट
अनेकान्तजयपताका
परिशिष्ट - १)
अनेकान्तजयपताकाऽन्तर्गतानां प्रमाणवार्तिकश्लोकानां स्वोपज्ञव्याख्यायाः
__मनोरथनन्दिकृतवृत्त्याश्च समुपन्यासः पृ. ८९८, पं. ३०
स्यादाधारो जलादीनां गमनप्रतिबन्धतः । अगतीनां किमाधारैर्गुणसामान्यकर्मणाम् ॥१/७०॥
एवं सामान्येनाश्रयाश्रयिभावदूषणमभिधाय द्रव्यदूषणादौ विशेषे दूषणं वक्तुमाह-स्यादाधारो जलादीनां प्रसर्पणधर्माणां गमनप्रतिबन्धतः कुण्डादिः । अगतीनां निष्क्रियत्वात् किमाधारैः गुणिव्यक्त्यादिभिर्गुणसामान्यकर्मणां पदार्थानाम् ? ॥१/७०।।
पृ. ९४१, पं. १
रूपादयो घटस्येति तत्सामान्योपसर्जनाः । तच्छक्तिभेदाः ख्याप्यन्ते वाच्योऽन्योऽपि दिशानया ॥१/१०४॥
(म०) समुदायाभिधायी चाप्रतिक्षिप्तधर्मान्तर एव भवतीति सौवर्णो घटः इत्यादि सामानाधिकरण्यम् । स च द्विविधः-अनेकवृत्तिः, अन्यथा च । तथा घटादिशब्दो विन्ध्याद्रिशब्दश्च । यदि रूपादयः केवलाः, नास्त्यवयवी, तदा कथं घटस्य रूपादय इति सम्बन्धः ? इत्याह-रूपादयो घटस्य इति सम्बन्धवाचिन्या श्रुत्या तत्सामान्योपसर्जना घटत्वसामान्यविशेषितास्तेषां रूपादीनां शक्तिभेदा रञ्जनादयः ख्याप्यन्ते, घटव्यपदेशविषयसमुदायान्तर्गतं रञ्जनक्षमरूपं निष्कृष्योच्यत इत्यर्थः । अन्योऽपि चन्दनस्य गन्धः इत्यादिव्यपदेशोऽनया दिशा वाच्यः । विस्तरस्तृतीयपरिच्छेद एवास्य । तदेवमवयव्यादीनां प्रतिषेधात् पानकादिरिव परमाणुपुञ्जरूप एव देहः प्रत्यक्षेणेक्ष्यत इति स्थितम् ॥१/१०४॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366