Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
परिशिष्ट - १
अनेकान्तजयपताका
On
कुरज्ञानवासनापाटवमङ्कुरज्ञानं जनयति, एवं धूमज्ञानमग्निज्ञानमुत्पादयति । तावतैव च ज्ञापकव्यवस्थाया अविरोधः ॥२/३९४।।
पृ. ११२३, पं. १
अनग्निजन्यो धूमः स्यात् तत्कार्यात् कारणे गतिः । न स्यात् कारणतायां वा कुत एकान्ततो गतिः ॥२/३९५॥
(म०) नन्वस्ति विरोधः । तथा हि-धूमज्ञानादग्निज्ञानोत्पादेऽनग्निजन्यो धूमः स्यात् । अग्निप्रतिभासस्य प्रागविद्यमानत्वात् विपर्ययः स्यात् । तत् तस्मात् कार्यात् कारणे गतिर्न स्यात् । अग्निज्ञानं प्रति धूमज्ञानस्य कारणतायां वा कारणात् कार्य एकान्ततोऽसन्दिग्धा कुतो गतिरिति ? ॥२/३९५॥
पृ. ११२४, पं. १
तत्रापि धूमाभासा धीः प्रबोधपटुवासनाम् । गमयेदग्निनिर्भासां धियमेव न पावकम् ॥२/३९६॥
(म०) अत्राह- तत्र धूमादग्न्यनुमानेऽपि धूमाभासा धीरग्निवासनाप्रतिबद्धा एकसामग्र्यधीनतयाऽग्निनिर्भासां धियमेव धूमज्ञानादेव प्रबोधेन पटुजननोन्मुखा वासना शक्तिर्यस्यास्तां गमयेत्, न पावकं बाह्यरूपम्, सर्वदाऽदर्शनात् ।।२/३९६॥
तद्योग्यवासनागर्भ एव धूमावभासिनीम् । व्यनक्ति चित्तसन्तानो धियं धूमोऽग्नितस्ततः ॥२/३९७॥
(म०) अग्निवासनाधूमज्ञानयोर्हेतुफलतामाख्यातुमाह-तस्याग्निप्रतिभासस्य योग्या जननसमर्था वासनागर्भे स्वभावभूता यस्य चित्तसन्तानस्य स चित्तसन्तानो धूमावभासिनी धियं व्यनक्ति उत्पादयति । ततोऽग्नित एव धूमो भवतीति न कार्यकारणताविपर्ययः । न च कारणात् कार्यानुमानम्, अग्निवासनाप्रभवत्वात् धूमाग्निज्ञानयोः । धूमज्ञानात् प्रबुद्धाग्निवासनाद्वारेणाग्निज्ञानानुमितिरेकसामग्र्यधीना ॥२/३९७।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366