Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 341
________________ परिशिष्ट - २ बाह्यार्थसिद्धि-अधिकार 'तद्भावे' इत्यादि । तद्भावे-ज्ञानाभावभावे सर्वशून्यतापत्तिः प्राप्नोति, ज्ञानार्थव्यतिरेकेण वस्त्वन्तरस्याभावात् । भवत्वेवं का नो हानिरितिचेत् ? अत आह-सा अणुहवेत्यादि' । सा-सर्वशून्यतापत्तिरनुभवसिद्धेन स्वसंवेदनप्रमाणसिद्धेन निजकज्ञानेन विरुध्यते, यदि हि सर्वशून्यता स्यात्ततः कथमिदमात्मीयमपि ज्ञानमनुभूयेतेति ? अपि च, इयमपि सर्वशून्यता प्रमाणतो वा व्यवस्थाप्येत अप्रमाणतो वा? किंचात: ? यदि प्रमाणतस्ततः सर्वशून्यताया अभावः, प्रमाणस्य विद्यमानत्वात् ॥६८८॥ तथाचाह - माणे इमीएऽभावो विणा तयं जइ इमीऍ सिद्धित्ति । तत्तोच्चिय अत्थस्सवि सिद्धीएँ निवारणमजुत्तं ॥६८९॥ (मानेऽस्या अभावो विना तकत् यदि अस्याः सिद्धिरिति । तत एव अर्थस्यापि सिद्धेर्निवारणमयुक्तम् ॥६८९॥) माने-प्रमाणे साधके अभ्युपगम्यमाने सर्वशून्यताया अभावः प्राप्नोति । अथाप्रमाणत इति पक्षस्तहि कथं तस्याः सिद्धिः? प्रमाणमन्तरेण प्रमेयसिद्ध्ययोगात् । अन्यथा यदि तकत्प्रमाण विनाऽपि अस्याः- सर्वसून्यतायाः सिद्धिरिष्यते, तर्हि तत एव-प्रमाणाभावादर्थस्यापि सिद्धर्भवन्त्या निवारणमयुक्तं, प्रमाणाभावस्य प्रमेयसिद्ध्यभावानिबन्धनत्वात् । ततश्च यो ग्राहकप्रमाणविरहादिभिर्बाह्यार्थाभावसाधने हेतुरुपन्यस्तः सोऽनैकान्तिक इति ॥६८९।। अन्यच्च - न य सो उवलद्धिलक्खणपत्तो जमदरिसणे वि ता तस्स । तदभावनिच्छयो णणु एगतेणं कुतो सिद्धो ? ॥६९०॥ (न च स उपलब्धिलक्षणप्राप्तो यददर्शनेऽपि तस्मात्तस्य । तदभावनिश्चयो ननु एकान्तेन कुतः सिद्धः ? ॥६९०॥) न च यत्-यस्मात्सः-बाह्योऽर्थ उपलब्धिलक्षणप्राप्तः, 'ता' तस्मात्तस्य-बाह्यार्थस्यादर्शनेऽपि नन्वेकान्तेन तदभावनिश्चयो-बाह्यार्थाभावनिश्चयः कुतः सिद्धः ? नैव कुतश्चिदितिभावः । दर्शनाभावमात्रस्यानुपलब्धिलक्षणप्राप्तेष्वभावसाधकत्वायोगात् । तत एवमपि पूर्वोक्तो हेतुरनैकान्तिक एव ॥६९०॥ अह सो परस्स एवं तदभावो तस्स चेव सज्झोत्ति । तुह आयनिच्छयो कह ? अजुत्तितो सा समा णाणे ॥६९१॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366