Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 348
________________ ३२ धर्मसङ्ग्रहणी परिशिष्ट - २ स्यादेतत्, इत्थमघटमानभावे तुल्ये सति द्वयोरपि-ज्ञानार्थयोरभावतो निःशेषशून्यतैव भवतु, अस्या एव संप्रति युक्तियुक्ततया प्रतिभासमानत्वात् । अत्राह - 'पडिहणिएत्यादि। ' एषानिःशेषशून्यता स्वसंवेदनप्रमाणसिद्धनात्मीयेनानुभवेन प्रतिभणिता-निराकृता प्राक्, ‘सा अणुहवसिद्धेणं विरुज्झई निययनाणेणं' इत्यादिना ग्रन्थेन ।।७०८।। न चार्थस्याघटमानभावो यत आह - न य न घडइ बज्झत्थो जमणू तल्लेतरादिरूवा उ। संसा णंसा य तओ जुत्ता संबंधसिद्धित्ति ॥७०९॥ (न च न घटते बाह्यार्थो यदणवस्तुल्येतरादिरूपास्तु । सांशा अनंशाश्च ततो युक्ता सम्बन्धसिद्धिरिति ॥७०९॥) न च न घटते बाह्योऽर्थ किंतु घटत एव । यत् - यस्माद् अणव:-परमाणवस्तुल्येतरादिरूपा:-साधारणासाधारणादिस्वभावाः तथा सांशा अनंशाश्च कथंचित्सांशा कथंचिच्चानंशाः, ततो युक्ता तेषां संबन्धसिद्धिः ॥७०९।। एनामेव भावयन्नाह - जं चेव खलु अणूणं पच्चासन्नत्तणं मिहो एत्थ । तं चेव उ संबंधो विसिट्ठपरिणामसाविक्खं ॥७१०॥ (यदेव खलु अणूनां प्रत्यासन्नत्वं मिथोऽत्र । तदेव तु सम्बन्धो विशिष्टपरिणामसापेक्षम् ॥) यदेव खल्वत्र-जगति मिथ:-परस्परमणूनां प्रत्यासन्नत्वं विशिष्टपरिणामसापेक्षं तत्तथास्वभावतासंपादितसत्ताकं कथंचिदपृथग्भूतापरिकल्पिततथाविधैकत्वरूपविशिष्टपरिणामसापेक्षं, तदेव नस्तेषां परमाणूनां संबन्ध इति कथमर्थस्यायुक्ता ? ॥७१०॥ अत्र पर आह - देसेणं संबंधो इय देसे सति य कहमणत्तं ति? अप्पतराभावातो णहप्पतरयं तओ अत्थि ॥७११॥ ( देशेन सम्बन्ध इति देशे सति च कथमणुत्वमिति ? । अल्पतराभावात् न हि अल्पतरं ततोऽस्ति ॥७११॥) ननु इति-एवममुना प्रकारेण देशेन परमाणूनां संबन्धोऽभ्युपगतः स्यात्, अन्यथा मिथस्तेषां प्रत्यासन्नत्वानुपपत्तेरित्युक्तं प्राक् पूर्वपक्ष एव, सति च देशे परमाणूनामभ्युपगम्यमाने कथमणुत्वंपरमाणुत्वं भवेत् ? । अत्राह - अल्पतराभावात्-ततोऽधिकृतात्परमाणोरन्यस्याल्पतरस्याभावात् । Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366