Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust

View full book text
Previous | Next

Page 324
________________ धर्मसङ्ग्रहणी परिशिष्ट - २ सो खलु तस्सागारो भिन्नोऽभिन्नो व होज्ज ? जति भिन्नो । तस्सत्ति को णु जोगो ? इतरम्मि तु उभयदोसोत्ति ॥६४२॥ (स खलु तस्याऽऽकारो भिन्नोऽभिन्नो वा भवेद् ? यदि भिन्नः । तस्येति को नु योगः ? इतरस्मिंस्तूभयदोष इति ॥६४२॥) स खलु तस्य - अर्थस्याकारस्ततोऽर्थाद्भिन्नो वा भवेद् अभिन्नो वा? यदि भिन्नस्ततस्तस्यार्थस्यायमाकार इति को नु योगः संबन्धः ? नैव कश्चित्, भेदे सति तादात्म्यायोगात्, तदुत्पत्तेश्चानभ्युपगमात्, । इतरस्मिंस्तु-अभेदपक्षे उभयदोषःपूर्वोक्तः प्राप्नोति ॥६४२॥ तमेव विततीकर्तुमाह - तदभिन्नागारत्ते दोण्हवि एगत्तमो कहं ण भवे ? । नाणे व तदागारे तस्साणागारभावोत्ति ॥६४३॥ (तदभिन्नाकारत्वे द्वयोरपि एकत्वं कथं न भवेत् । ज्ञाने वा तदाकारे तस्यानाकारभाव इति ॥६४३॥) तदभिन्नाकारत्वे-अर्थाभिन्नाकारत्वे सति संवेदनस्य द्वयोरपि-संवेदनार्थयोरेकत्वं कथं न भवेत् ? भवेदेवेति भावः, द्वयोरप्येकस्मादाकारादभिन्नत्वात् । ज्ञाने वा-ज्ञान एव वा तदाकारेविवक्षिताकारसहिते सति तस्य-अर्थस्यानाकारभावः प्राप्नोति, तदाकारस्य ज्ञाने संक्रान्तत्वात् ॥६४३ ॥ अत्रार्थवादिमतमाशङ्कमान आह - सिय तत्तुल्लागारं जं तं भणिमो अओ तदागारं । तग्गहणाभावे णणु तुल्लत्तं गम्मई कह णु ? ॥६४४॥ (स्यात्, तत्तुल्याकारं यत् तद् भणामः अतस्तदाकारम् । तद्ग्रहणाभावे ननु तुल्यत्वं गम्यते कथं नु ॥६४४॥) स्यादेतत्, न बूमोऽर्थगताकारक्रोडीकरणेन संवेदनं तदाकारं, किंतु यत्-यस्मात् तत्संवेदनं तत्तुल्याकारम्-अर्थाकारसदृशाकारमितियावत्, अत:-अस्मात्कारणात् तदाकारम्-अर्थाकारं बूमः, ततो न कश्चिद्दोष इति, अत्राह-'तग्गहणेत्यादि' । तद्ग्रहणाभावे तस्यार्थस्य ग्रहणाभावे सति ननु संवेदनाकारस्यार्थाकारेण सह तुल्यत्वं कथं गम्यते ? नैव कथंचनेति भावः सादृश्यनिश्चयस्योभयग्रहणाधिष्ठानत्वात् ॥६४४।। अह सागाराउ च्चिय तत्तुल्लो दीसती तु सो जेणं । तम्मत्ताणुहवणमो विहाय किं दंसणं अन्नं ? ॥६४५॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366