Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
३०
धर्मसङ्ग्रहणी
परिशिष्ट - २
नीलत्ते सामन्ने कारणविगलत्तणे य किन्नेवं ? । अन्नपि नीलहेउ जायइ पीतादिहेउत्ति ॥७०३॥ (नीलत्वे सामान्ये कारणविकलत्वे च किन्नेवम् ? । अन्यदपि नीलहेतुः जायते पितादिहेतुरिति ॥७०३॥)
नीलत्वे-नीलज्ञानत्वे सामान्ये कारणविकलत्वे च-बाह्यार्थादिकारणान्तररहितत्वे च सामान्ये सति किन्नैवमन्यदपि-नीलज्ञानं नीलहेतुः-विवक्षितनीलज्ञानहेतुभूतं जायते पीतादिहेतुः ? इदमुक्तं भवति-इह कदाचित् प्रबन्धवन्त्यपि ज्ञानानि जायन्ते, तथानुभवात्, यदि नीलज्ञानस्यात्मरूपमेव कारणान्तरविकलं पितादिज्ञानहेतुरिष्यते तर्हि यथा चरमं नीलज्ञानं पितादिज्ञानान्तरहेतुस्तथा ततः प्राचीनमपि कस्मान्न भवति ? विशेषाभावादिति ॥७०३।।
अह तं विसिट्टगं चिय वइसिटुं हंत किंकयं तस्स ? । अह तु सहेतुकयं चिय ण तेसि तत्ताविसेसातो ॥७०४॥ (अथ तद्विशिष्टकमेव वैशिष्ट्यं हन्त किंकृतं तस्य ? । अथ तु स्वहेतुकृतमेव न तेषां तत्त्वाविशेषात् ॥७०४॥)
अथ तत्-नीलज्ञानं विशिष्टमेव पितादिज्ञानहेतुरिष्यते न यत्किमपि, न च नीलज्ञानहेतुर्नीलज्ञानं विशिष्टमिति न ततोऽपि पीतादिज्ञानभाव इति । अत्राह - 'वइसिट्ठमित्यादि' । वैशिष्ट्यं हन्त किंकृतं तस्य-पितादिज्ञानान्तरहेतोर्विवक्षितनीलज्ञानस्य ? अथोच्येत किमत्र हेत्वन्तरेण ? स्वहेतुकृतमेव तस्य वैशिष्ट्यमिति । अत आह-'न तेसि तत्ताविसेसाओ' । यदेतदनन्तरमुक्तं तन्न, तयोः-नीलज्ञानहेतुपितादिज्ञानान्तरहेतुनीलज्ञानयोस्तत्त्वाविशेषात्स्वरूपाविशेषात् ॥७०४॥
एतदेवाह - नीलक्खणजणगातो जाओ तस्सेव जुज्जई हेऊ । भेदगभावाभाव अतीतनीलक्खणा जह उ ॥७०५॥ (नीलक्षणजनकाद् जातास्तस्यैव युज्यते हेतवः ।। भेदकभावाभावादतीतनीलक्षणा यथा तु ॥७०५॥)
यथा अतीतनीलक्षणा-अतीतनीलज्ञानक्षणा नीलज्ञानक्षणजनकाद्धेतोर्जाताः सन्तस्तस्यैवनीलज्ञानक्षणस्य हेतवोऽभवन्, तथा विवक्षितो नीलज्ञानक्षणो नीलज्ञानक्षणजनकाद्धेतोर्जातः सन् तस्यैव नीलज्ञानक्षणस्य हेतुर्युज्यते, न पीतादिज्ञानस्य । कुत इत्याह-'भेदकभावाभावात्' । भेदकं यद्भावान्तरं तस्याभावात् ।।७०५।।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366