Book Title: Anekantjaipataka Part 04
Author(s): Bhavyasundarvijay, Yashratnavijay
Publisher: Jingun Aradhak Trust
View full book text
________________
३४
धर्मसङ्ग्रहणी
परिशिष्ट - २
TO
तत्र यदुक्तम्-'नहप्पतरयं तओ अत्थि'त्ति, तत्र पर आह - दिसिभेयाउ च्चिय सक्कभेदओ कह ण अप्पतरगति ? । दव्वेण सक्कभेदं विवक्खितं ता कुतो तमिह ? ॥७१३॥ (दिग्भेदादेव शक्यभेदतः कथं नाल्पतरमिति । द्रव्येनाऽशक्यभेदं विवक्षितं ततः कुतस्तदिह ॥७१३॥)
ननु दिग्भेदात्-पूर्वादिदिग्भेदात्खलु शक्यः परमाणोर्भेदः, कर्तुं ततः कथमुच्यते – नहि ततोऽल्पतरमन्यदस्तीति । नैष दोषः यतः परमाणुरिति द्रव्यतोऽशक्यभेदं विवक्षितं, न च तस्य द्रव्यतो भेदः कर्तुं शक्यते, 'ता' तस्मात्कुत इह जगति तत्-विवक्षितपरमाणोरपि सकाशादन्यदल्पतरं भवेत् ? नैव कुतश्चिदिति भावः । ननु च यदि द्रव्यतोऽशक्यभेदं तत् परमाणुद्रव्यं तर्हि तस्य दिग्भागभेदोऽपि न स्यात्, सोऽपि हि द्रव्यरूपस्य सतस्तस्य परमाणोरंशेन भवति, तथा च सति भगवन्मुनीन्द्रवचनविरोधः, एगप्रदेशावगाढं परमाणुद्रव्यं सप्तप्रदेशा च तस्य स्पर्शनेति ॥७१३।।
अत आहतस्सवि सदवत्थाणा दिसभेदो सो य तस्स धम्मोत्ति । तदभावेऽभावातो अपदेसो दव्वताए तु ॥७१४॥ (तस्यापि सदवस्थानात् दिग्भेदः स च तस्य धर्म इति । तदभावेऽभावादप्रदेशो द्रव्यतया तु ॥७१४॥)
तस्यापि-द्रव्यतोऽशक्यभेदस्यापि आस्तां तावदन्यस्येत्यापिशब्दार्थः, दिग्भेदः-पूर्वादिदिग्भेदः । कुत इत्याह-'सदवस्थानात्' सतोऽवश्यं क्वचिदवस्थानं सदवस्थानं तस्मात्, तद्धि द्रव्यतोऽशक्यभेदमपि सत्, सच्चावश्यं क्वचिदवतिष्ठत इति । स च दिग्भागभेदो न कल्पनामात्रं, नापि द्रव्यरूपतया अंशेन, किंतु तात्त्विको धर्मो यत आह-'सो य तस्स धम्मो 'त्ति । स चदिग्भागभेदस्तस्य-परमाणोधर्म:-पर्यायः । इत्थं चैतदङ्गीकर्त्तव्यमन्यथा तदभावे-यथोदितदिग्भागभेदाभावे अवस्थानस्याभावेनाभावप्रसङ्गात् । ननु यदि तात्त्विको दिग्भागभेदः परमाणोरभ्युपगम्यते तर्हि तस्य सप्रदेशता बलात् प्रसज्यते, तथा च सति “परमाणुरप्रदेश इति" पारमेश्वरवचनविरोधप्रसङ्ग इति । अत आह 'अपदेसो दव्वयाए उ' । परमाणुरप्रदेशो भगवद्भिरभिहितो द्रव्यतयैव द्रव्यरूपतयैव, तुरवधारणे, न तु पर्यायतः, पर्यायतस्तस्य सप्रदेशतयाभ्युपगमात् । तदुक्तं प्रज्ञप्तौ द्रव्यक्षेत्राद्यपेक्षया सप्रदेशाप्रदेशत्वचिन्तायाम्-"भावओ सप्पदेसे" (छा.
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366